Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 564

1875 Mantra
Devata- पवमानः सोमः Rishi- गृत्समदः शौनकः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣ञ्ज꣢ते꣣꣬ व्य꣢꣯ञ्जते꣣ स꣡म꣢ञ्जते꣣ क्र꣡तु꣢ꣳ रिहन्ति꣣ म꣢ध्वा꣣꣬भ्य꣢꣯ञ्जते । सि꣡न्धो꣢रुऽच्छ्वा꣣से꣢ प꣣त꣡य꣢न्तमु꣣क्ष꣡ण꣢ꣳ हिरण्यपा꣣वाः꣢ प꣣शु꣢म꣣प्सु꣡ गृ꣢भ्णते ॥५६४॥

अ꣣ञ्ज꣡ते꣢ । वि । अ꣣ञ्जते । स꣢म् । अ꣣ञ्जते । क्र꣡तु꣢꣯म् । रि꣣हन्ति । म꣡ध्वा꣢꣯ । अ꣣भि꣢ । अ꣣ञ्जते । सि꣡न्धोः꣢꣯ । उ꣣च्छ्वासे꣢ । उ꣣त् । श्वासे꣢ । प꣣त꣡य꣢न्तम् । उ꣣क्ष꣡ण꣢म् । हि꣣रण्यपावाः꣢ । हि꣣रण्य । पावाः꣢ । प꣣शु꣢म् । अ꣣प्सु꣢ । गृ꣣भ्णते ॥५६४॥

Mantra without Swara
अञ्जते व्यञ्जते समञ्जते क्रतुꣳ रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणꣳ हिरण्यपावाः पशुमप्सु गृभ्णते ॥

अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोः । उच्छ्वासे । उत् । श्वासे । पतयन्तम् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते ॥५६४॥

Samveda - Mantra Number : 564
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
उपासकाः जनाः (क्रतुम्) क्रतुमन्तं कर्मवन्तं प्रज्ञावन्तं च परमात्मसोमम्। अत्र मत्वर्थीयस्य लुक्। (अञ्जते) स्वात्मनि व्यक्तीकुर्वन्ति, (व्यञ्जते) विविधरूपेषु व्यक्तीकुर्वन्ति, (समञ्जते) तेन सह संमिलन्ति, तम् (रिहन्ति) लिहन्ति, तत आगतम् आनन्दरसमास्वादयन्तीत्यर्थः, (मध्वा) मधुरेण श्रद्धारसेन तम् (अभ्यञ्जते) लिम्पन्तीव। (सिन्धोः) आनन्दसागरस्य (उच्छ्वासे) तरङ्गनिचये (पतयन्तम्) दोलारोहणमिव कुर्वाणम् (उक्षणम्) स्वसखीनपि आनन्दतरङ्गैः सिञ्चन्तम् (पशुम्) द्रष्टारं दर्शयितारं च तं परमेश्वरम्। पशुः पश्यतेः। निरु० ३।१६। (हिरण्यपावाः) हिरण्येन ज्योतिषा सत्येन आनन्दामृतेन च स्वात्मानं पुनन्ति ये ते विद्वांसो जनाः। ज्योतिर्हि हिरण्यम्। श० ४।३।४।२१। सत्यं वै हिरण्यम्। गो० उ० ३।१७। अमृतं वै हिरण्यम्। श० ९।४।४।५। (अप्सु) स्वकीयेषु प्राणेषु। प्राणा वा आपः। तै० ३।२।५।२। (गृभ्णते) गृह्णते। अत्र ग्रह धातोः ‘हृग्रहोर्भश्छन्दसि। अ० ३।१।८४, वा०’ इत्यनेन हस्य भः ॥११॥ ‘ञ्जते’ इति निरर्थकानां सर्वेषां बहुकृत्व आवर्तनात् यमकालङ्कारः। ‘अञ्जते, व्यञ्जते, समञ्जते, रिहन्ति, अभ्यञ्जते, गृभ्णते’ इत्येनकक्रियाणामेककारकसम्बन्धाद् दीपकालङ्कारः। समुद्रस्योच्छ्वासे उड्डीयमानं बलीवर्दं पशुम् उदकेषु गृह्णन्ति चिक्कणीकुर्वन्ति चेत्याद्यर्थस्याप्यभिधानात् प्रहेलिकालङ्कारोऽपि। ‘अभ्यञ्जते लिम्पन्तीव’, ‘पतयन्तं दोलारोहणमिव कुर्वाणम्’ इत्युभयत्र गम्योत्प्रेक्षा। सिन्धोः उच्छ्वासो न भवितुमर्हतीति तस्य तरङ्गनिचये लक्षणा, तरङ्गाणामूर्ध्वगामित्वं व्यङ्ग्यम् ॥११॥
Essence
परमेश्वरस्योपासका योगिनस्तं हृदयेऽभिव्यज्य स्वभक्तिरसेन स्नपयित्वा स्वकीयानां प्राणानामङ्गतां यदा नयन्ति तदैव तेषामुपासना सफला ॥११॥
Subject
अथ विदुषां कर्म वर्णयति।
Footnote
१. ऋ० ९।८६।४३ ‘मधुनाभ्यञ्जते’ इति ‘पशुमासु’ इति च पाठः। अथ० १८।३।१८, ऋषिः अथर्वा, देवता यमः, पाठः ऋग्वेदवत्। साम० १६१४।