Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 563

1875 Mantra
Devata- पवमानः सोमः Rishi- वत्सप्रिर्भालन्दः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣢ दे꣣व꣢꣫मच्छा꣣ म꣡धु꣢मन्त꣣ इ꣢न्द꣣वो꣡ऽसि꣢ष्यदन्त꣣ गा꣢व꣣ आ꣢꣫ न धे꣣न꣡वः꣢ । ब꣣र्हिष꣡दो꣢ वच꣣ना꣡व꣢न्त꣣ ऊ꣡ध꣢भिः परि꣣स्रु꣡त꣢मु꣣स्रि꣡या꣢ नि꣣र्णि꣡जं꣢ धिरे ॥५६३॥

प्र꣢ । दे꣣व꣢म् । अ꣡च्छ꣢꣯ । म꣡धु꣢꣯मन्तः । इ꣡न्द꣢꣯वः । अ꣡सि꣢꣯ष्यदन्त । गा꣡वः꣢꣯ । आ । न । धे꣣न꣡वः꣢ । ब꣣र्हि꣡षदः꣢ । ब꣣र्हि । स꣡दः꣢꣯ । व꣣चना꣡व꣢न्तः । ऊ꣡ध꣢꣯भिः । प꣣रिस्रु꣡त꣢म् । प꣣रि । स्रु꣡त꣢꣯म् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । नि꣣र्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । धि꣣रे ॥५६३॥

Mantra without Swara
प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥

प्र । देवम् । अच्छ । मधुमन्तः । इन्दवः । असिष्यदन्त । गावः । आ । न । धेनवः । बर्हिषदः । बर्हि । सदः । वचनावन्तः । ऊधभिः । परिस्रुतम् । परि । स्रुतम् । उस्रियाः । उ । स्रियाः । निर्णिजम् । निः । निजम् । धिरे ॥५६३॥

Samveda - Mantra Number : 563
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मधुमन्तः) मधुरव्यवहारोपेताः (इन्दवः) श्रद्धारसभरिताः विद्वांसः (देवम् अच्छ) दिव्यगुणयुक्तं परमात्मानमभिलक्ष्य (प्र असिष्यदन्त) श्रद्धारसं प्रस्रावयन्ति, (न) यथा (धेनवः) प्रीणयित्र्यः (गावः) पयस्विन्यः (असिष्यदन्त) वत्सं प्रति स्वदुग्धं प्रस्रावयन्ति। (बर्हिषदः) यज्ञिये दर्भासने स्थिताः (वचनावन्तः) स्तुतिमन्तः ते विद्वांसः। उच्यते इति वचना स्तुतिः तद्वन्तः। (निर्णिजम्) शुद्धम् (परिस्रुतम्) उत्पन्नं श्रद्धारसम् (ऊधभिः) हृदयरूपैः आपीनैः (धिरे) धारयन्ति, (उस्रियाः) उस्रिया गावः ताः इव इति लुप्तोपमम्। यथा (बर्हिषदः) यज्ञे स्थिताः (वचनावत्यः) हम्भारवयुक्ताः। गोपक्षे विशेष्यानुसारं लिङ्गं विपरिणेतव्यम्। (उस्रियाः) गावः (परिस्रुतम्) उत्पन्नम् (निर्णिजम्) शुद्धं दुग्धम् (ऊधभिः) आपीनैः (धिरे) धारयन्ति तथेत्यर्थः ॥१०॥ ‘गाव आ न धेनवः’ इत्युपमालङ्कारः पुनरुक्तवदाभासश्च। उत्तरार्द्धे ‘उस्रियाः’ इति लुप्तोपमम् ॥१०॥
Essence
परमात्मानं प्रति सर्वैर्जनैस्तथैव क्षरद्भक्तिरसैर्भाव्यं यथा गावो वत्सं प्रति प्रस्नुतपयोधरा भवन्ति ॥१०॥
Subject
अथ विद्वद्विषयमाह।
Footnote
१. ऋ० ९।६८।१।