Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 562

1875 Mantra
Devata- पवमानः सोमः Rishi- वसुर्भारद्वाजः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡सा꣢वि꣣ सो꣡मो꣢ अरु꣣षो꣢꣫ वृषा꣣ ह꣢री꣣ रा꣡जे꣢व द꣣स्मो꣢ अ꣣भि꣡ गा अ꣢꣯चिक्रदत् । पु꣣नानो꣢꣫ वार꣣म꣡त्ये꣢ष्य꣣व्य꣡य꣢ꣳ श्ये꣣नो꣡ न योनिं꣢꣯ घृ꣣त꣡व꣢न्त꣣मा꣡स꣢दत् ॥५६२॥

अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । अ꣣रुषः꣢ । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । दस्मः꣢ । अ꣣भि꣢ । गाः । अ꣣चिक्रदत् । पुनानः꣢ । वा꣡र꣢꣯म् । अ꣡ति꣢꣯ । ए꣣षि । अव्य꣡य꣢म् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । घृ꣣त꣡व꣢न्तम् । आ । अ꣣सदत् ॥५६२॥

Mantra without Swara
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययꣳ श्येनो न योनिं घृतवन्तमासदत् ॥

असावि । सोमः । अरुषः । वृषा । हरिः । राजा । इव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । अति । एषि । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आ । असदत् ॥५६२॥

Samveda - Mantra Number : 562
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अरुषः) आरोचमानः। अरुषः इति रूपनाम। निघं० ३।७। ततो मत्वर्थीयः अच् प्रत्ययः। (वृषा) सुखादीनां वर्षकः, (हरिः) पापादीनां हर्ता (सोमः) रसागारः परमात्मा (असावि) मया स्वहृदये अभिषुतः अस्ति। (दस्मः) दर्शनीयः दुर्गुणानामुपक्षपयिता वा सः। दसि दंशनदर्शनयोः। ततः ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्। उ० १।१४५’ इति मक् प्रत्ययः। (राजा इव) सम्राड् यथा (गाः अभि) राष्ट्रभूमीः, राष्ट्रवासिनीः प्रजाः इत्यर्थः, अभिलक्ष्य (अचिक्रदत्) उपदिशति, राजनियमान् उद्घोषयति, तथा (गाः अभि) स्तोतॄन् अभिलक्ष्य। गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६। (अचिक्रदत्) उपदिशति। अथ प्रत्यक्षकृतमाह। हे भगवन् ! (पुनानः) पवित्रतामापादयन् त्वम् (वारम्) निवारकं बाधकं कामक्रोधादिकम् (अति) अतिक्रम्य (अव्ययम्) विनाशरहितं जीवात्मानम् (एषि) प्राप्नोषि। सम्प्रति पुनः परोक्षकृतं ब्रवीति। (श्येनः न) वायुर्यथा। श्येनः इति निरुक्ते मध्यमस्थानीयेषु देवेषु पठितत्वात्। श्येनपक्षिवायुप्राणादिवाचको भवति। (घृतवन्तम्) उदकवन्तम्। घृतम् इत्युदकनाम जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (योनिम्) अन्तरिक्षम्। योनिः अन्तरिक्षं, महानवयवः। निरु० २।८। आसीदति, तथा स परमेश्वरः (घृतवन्तम्) आज्यजलदीप्त्यादियुक्तम् (योनिम्) ब्रह्माण्डगृहम्। योनिरिति गृहनाम। निघं० ३।४। (आसदत्) आतिष्ठति ॥९॥ अत्र श्लिष्टोपमालङ्कारः ॥९॥
Essence
पूर्वमेव सर्वेषां हृदि समुपविष्टोऽपि गूढतया स्थितः परमेश्वरः सर्वैः श्रवणमनननिदिध्यासनादिभिः साक्षात्करणीयः ॥९॥
Subject
अथ परमात्मनः सकाशात् प्राप्तमानन्दरसप्रवाहं वर्णयति।
Footnote
१. ऋ० ९।८२।—१ ‘पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम्’ इत्युत्तरार्द्धपाठः। साम० १३१६।