Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 561

1875 Mantra
Devata- पवमानः सोमः Rishi- वेनो भार्गवः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
इ꣡न्द्रा꣢य सोम꣣ सु꣡षु꣢तः꣣ प꣡रि꣢ स्र꣣वा꣡पामी꣢꣯वा भवतु꣣ र꣡क्ष꣢सा स꣣ह꣢ । मा꣢ ते꣣ र꣡स꣢स्य मत्सत द्वया꣣वि꣢नो꣣ द्र꣡वि꣢णस्वन्त इ꣣ह꣢ स꣣न्त्वि꣡न्द꣢वः ॥५६१॥

इ꣡न्द्रा꣢꣯य । सो꣣म । सु꣡षु꣢꣯तः । सु । सु꣣तः । प꣡रि꣢꣯ । स्र꣣व । अ꣡प꣢꣯ । अ꣡मी꣢꣯वा । भ꣣वतु । र꣡क्ष꣢꣯सा । स꣣ह꣢ । मा꣢ । ते꣣ । र꣡स꣢꣯स्य । म꣣त्सत । द्वयावि꣡नः꣢ । द्र꣡वि꣢꣯णस्वन्तः । इ꣣ह꣢ । स꣣न्तु । इ꣡न्द꣢꣯वः ॥५६१॥

Mantra without Swara
इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥

इन्द्राय । सोम । सुषुतः । सु । सुतः । परि । स्रव । अप । अमीवा । भवतु । रक्षसा । सह । मा । ते । रसस्य । मत्सत । द्वयाविनः । द्रविणस्वन्तः । इह । सन्तु । इन्दवः ॥५६१॥

Samveda - Mantra Number : 561
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) परब्रह्म परमात्मन् ! (सुषुतः) ध्यानेन सम्यक् निष्पीडितः त्वम् (इन्द्राय) जीवात्मने (परिस्रव) परिस्रुतो भव, आनन्दरसं प्रवाहय। त्वत्साहाय्येन (रक्षसा सह) कामक्रोधाद्यात्मकेन राक्षसेन सार्द्धम् (अमीवा) मनस्तापरूपो रोगः (अप भवतु) अस्मत्तः पृथग् जायताम्। (द्वयाविनः२) मनस्यन्यद् वचस्यन्यद् इति द्विविधाचरणाः कपटिनो धूर्ता वञ्चकाः। द्वयं येषां ते द्वयाविनः। द्वयशब्दात्, ‘छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्। अ० ५।२।१२२, वा०’ इति वार्तिकेन मत्वर्थे विन् दीर्घश्च। (ते) तव (रसस्य) रसम् मधुरम् आनन्दम् (मा मत्सत) न स्वदितुं शक्नुयुः। मदी हर्षे। लुङ्। माङ्योगे अडागमाभावः। (इह) सरलस्वभावेषु अस्मासु पुनः (इन्दवः) क्लेदनकरा ब्रह्मानन्दरसाः (द्रविणस्वन्तः) ऐश्वर्यवन्तो बलवन्तो वा। द्रविणः धनं बलं वा तद्वन्तः। (सन्तु) भवन्तु, अस्मभ्यं स्वकीयम् ऐश्वर्यं बलं च प्रयच्छन्त्विति भावः ॥८॥ अत्र सकारस्यासकृदावृत्तौ वृत्त्यनुप्रासोऽलङ्कारः ॥८॥
Essence
सरलवृत्तय एव जना ब्रह्मानन्दरसस्याधिकारिणो भवन्ति, न तु कुटिलवृत्तयः परप्रतारकाश्च ॥८॥
Subject
अथ ब्रह्मानन्दरसप्रवाहं प्रार्थयते।
Footnote
१. ऋ० ९।८५।१। २. द्वयाविनो द्वयवन्तः वञ्चकाः। येषां वाच्येकं कर्मणि अन्यत् ते द्वयाविनः—इति भ०। द्वयं सत्यानृतं तेन युक्ताः मायिन इत्यर्थः—इति सा०।