Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 560

1875 Mantra
Devata- पवमानः सोमः Rishi- रेणुर्वैश्वामित्रः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ पर꣣मे꣡ व्यो꣢मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥५६०॥

त्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दु꣣दुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣢मन् । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣢ । अ꣡व꣢꣯र्धत ॥५६०॥

Mantra without Swara
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥

त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रिरे । सत्याम् । आशिरम् । आ । शिरम् । परमे । व्योमन् । वि । ओमनि । चत्वारि । अन्या । अन् । या । भुवनानि । निर्णिजे । निः । निजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥५६०॥

Samveda - Mantra Number : 560
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(परमे) उत्कृष्टे (व्योमनि) हृदयाकाशे (अस्मै) स्तोत्रे जनाय (त्रिः सप्त) एकविंशतिसंख्यका एकविंशतिच्छन्दोयुताः (धेनवः) वेदवाग्रूपा गावः (सत्याम् आशिरम्) सत्यरूपं दुग्धम् (दुदुह्रिरे) दुहन्ति। अत्र ‘बहुलं छन्दसि। अ० ७।१।८’ इति रुडागमः। (यत्) यदा एष (ऋतैः) सत्यैः ज्ञानकर्मभिः (अवर्द्धत) वृद्धिं गच्छति, तदायम् (निर्णिजे) आत्मनः शोधनाय पोषणाय वा। णिजिर् शौचपोषणयोः। चत्वारि चतुःसंख्यकानि (अन्या) अन्यानि (चारूणि) सुरम्याणि (भुवनानि) धर्मार्थकाममोक्षरूपाणि (चक्रे) सम्पादयति ॥७॥२ धेनुः इति वाङ्नामसु पठितम्। निघं० १।११। ‘वाग् वै धेनुः’ इति च ब्राह्मणम्, तां० ब्रा० १८।९।२१, गो० पू० २।२१। यद्वा वेदवाचि धेनुत्वारापोद्, उपमेयस्योपमानेन निगरणाच्चातिशयोक्तिरलङ्कारः ॥७॥
Essence
सप्त गायत्र्यादीनि सप्त अतिजगत्यादीनि सप्त च कृत्यादीनि मिलित्वा एकविंशतिश्छन्दांसि भवन्ति। तन्मय्य एकविंशतिविधा वेदवाचः साक्षाद् धेनव इव सन्ति, याः स्वगोपालाय सत्यज्ञानरूपं सत्कर्तव्यबोधरूपं च पयः प्रयच्छन्ति, येन परिपुष्टः स धर्मार्थकाममोक्षरूपेषु चतुर्षु भुवनेषु कृतनिवासो जीवनसाफल्यमधिगच्छति ॥७॥
Subject
अथ स्तोता किं फलं प्राप्नोतीत्याह।
Footnote
१. ऋ० ९।७०।१ ‘दुदुह्रिरे, परमे’ इत्यत्र क्रमेण ‘दुदुह्रे, पूर्व्ये’ इति पाठः। २. विवरणकार एतामृचमेवं व्याचष्टे—“अस्मै सोमाय सप्त धेनवः सप्त छन्दांसि, त्रिः प्रातःसवनमाध्यन्दिनसवनतृतीयसवनेषु दुदुह्रिरे। अथवा त्रिः त्रिभिः सवनैः सप्त धेनवः सप्त होत्रा वषट्कारिणः—होता, मैत्रावरुणः ब्राह्मणाच्छंसी, पोता, नेष्टा, अच्छावाकः, आग्नीध्रः—एतेषां वाचः दुह्यन्ते। सत्याम् आशिरम् आश्रयणीयं मिश्रणं वा। परमे प्रकृष्टे व्योमनि व्याप्तिस्थाने यज्ञे वा। चत्वारि अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चतुर्थः। अथवा पृथिवी, अन्तरिक्षं द्यौर्दिश इति। अथवा चत्वारो वेदाः। अथवा चत्वारो महर्त्विजः, अथवा चत्वारः समुद्राः। अन्या भुवनानि निर्णिजे चतुर्दश भुवनानि। सप्त भूरादयो लोकाः, सप्त पातालानि। तान्यपि चारूणि चक्रे कृतवान्। केन प्रकारेण ? यद् ऋतैः अन्नैः यज्ञैः सत्यैर्वा अवर्धत। अथवा त्रिः अस्मै सप्त धेनवः सप्त रश्मयः दुदुह्रिरे। अथवा सप्ताश्वाः। अथवा सप्त पावकजिह्वाः, सप्त मातरो वा, सप्त भूरादयो लोकाः, सप्त पातालानि, सप्त सोमसंस्थाः, सप्त समुद्राः, सप्त द्वीपानि, सप्त स्वराः—एताः दुदुह्रिरे। सत्याम् आशिरम् उदकं परमे व्योमनि। चत्वारि अन्या भुवनानि पृथिव्यादीनि चारूणि चक्रे। यद् ऋतैः यज्ञैः अवर्धत इति। अथवा त्रिः अस्मै सप्त धेनवः सप्त प्राणाः शीर्षण्या ईरिताः उत्पत्तिस्थितिप्रलयेषु। सत्याम् अवितथाम्। आशिरं ज्ञानम्। चत्वारि अन्यानि भुवनानि जाग्रत्स्वप्नसुषुप्तितुरीयासु अद्वैतावस्थेति। यद् ऋतैर्जनैः अवर्धत विज्ञानाय” इति। अथ भरतः—“त्रिः सप्त एकविंशतिः, धेनवः छन्दांसि माध्यमिकवाग्रूपेण अवतिष्ठन्ते इत्येतत्—‘अयं स शिङ्क्ते येन गौरभीवृता’ ऋ० १।१६४।२९ इत्यस्यामृचि ज्ञायते। वाचः छन्दांस्यभिव्यक्तिस्थानानीति वाचः छन्दोवृष्टिः। चत्वारि अन्या अन्यानि भुवनानि उदकानि। अस्य निर्णिजे रूपाय भवन्ति। एकं वासतीवरं त्रीणि ऐकधनानीति भुवनचतुष्टयम्। अयं च सोमः चारूणि भद्राणि चक्रे करोति यजमानानाम्, यत् यदा ऋतैः उदकैः अवर्धत वर्धते। तदा चारूणि चक्रे” इति। अथ सायणः—“परमे उत्कृष्टे व्योमनि विविधम् ओम अवनं गमनं देवानामत्रेति व्योमा यज्ञः तस्मिन् स्थिताय। यद्वा परमे व्योमनि अन्तरिक्षे वर्तमानाय। त्रिः सप्त एकविंशतिसंख्याकाः धेनवः प्रीणयित्र्यो गावः....। यद्वा त्रिः सप्त द्वादशमासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंश इति। एतैः सर्वैः सह गोषु पय उत्पाद्यते तद् गावो दुहन्तीति। चत्वारि भुवना उदकानि वसतीवरीस्तिस्रश्चैकधना इति चतुःसंख्यानि...। निर्णिजे निर्णेजनाय परिशोधनाय परिपोषणाय वा...। ऋतैः यज्ञैः” इति।