Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 56

1875 Mantra
Devata- ब्रह्मणस्पतिः Rishi- कण्वो घौरः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्रै꣢तु꣣ ब्र꣡ह्म꣢ण꣣स्प꣢तिः꣣ प्र꣢ दे꣣꣬व्ये꣢꣯तु सू꣣नृ꣡ता꣢ । अ꣡च्छा꣢ वी꣣रं꣡ न꣢꣯र्यं प꣣ङ्क्ति꣡रा꣢धसं दे꣣वा꣢ य꣣ज्ञं꣡ न꣢यन्तु नः ॥५६॥

प्र꣢ । ए꣣तु । ब्रह्म꣢꣯णः प꣡तिः꣢꣯ । प्र । दे꣣वी꣢ । ए꣣तु । सूनृ꣡ता꣢ । सु꣣ । नृ꣡ता꣢꣯ । अ꣡च्छ꣢꣯ । वी꣣र꣢म् । न꣡र्य꣢꣯म् । प꣣ङ्क्ति꣡रा꣢धसम् । प꣣ङ्क्ति꣢म् । रा꣣धसम् । देवाः꣢ । य꣣ज्ञ꣢म् । न꣣यन्तु । नः ॥५६॥

Mantra without Swara
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥

प्र । एतु । ब्रह्मणः पतिः । प्र । देवी । एतु । सूनृता । सु । नृता । अच्छ । वीरम् । नर्यम् । पङ्क्तिराधसम् । पङ्क्तिम् । राधसम् । देवाः । यज्ञम् । नयन्तु । नः ॥५६॥

Samveda - Mantra Number : 56
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ब्रह्मणस्पतिः) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामी जगदीश्वरः२ (प्र एतु) अस्मान् प्राप्नोतु। (देवी) दिव्यगुणयुक्ता (सूनृता) प्रियसत्यात्मिका वाक् (प्र एतु) अस्मान् प्राप्नोतु। (देवाः) विद्वांसः विदुष्यश्च। देवाश्च देव्यश्च इति देवाः, अत्र एकशेषः। (नः) अस्माकम् (यज्ञम्) राष्ट्ररूपम् अध्वरम् (अच्छ) प्रति। संहितायां निपातस्य च। अ० ६।–३।१३६ इति दीर्घः। (नर्यम्) नरेषु साधुम्, नरहितकारिणम् (पङ्क्तिराधसम्३) यः पङ्क्तीः धर्मात्मवीरमनुष्याणां श्रेणीः राध्नोति सेवते, यद्वा पङ्क्त्यर्थं राधो धनं यस्य तम्।४ राध संसिद्धौ। राध इति धननाम। निघं० २।—१०। (वीरम्) पूर्णशरीरात्मबलयुक्तं सन्तानम् (नयन्तु) प्रापयन्तु ॥२॥५
Essence
वेदस्य, ब्रह्माण्डस्य, सकलैश्वर्यस्य च स्वामी परमेश्वरः मधुरा प्रिया सत्या वाग्, नरहितकर्ता धर्मात्मनां सेवकः सत्कार्येषु धनस्य दाता पुत्रश्च यदि प्राप्यते, तर्हि नूनं सर्वा अपि सिद्धयो हस्तगता भवन्ति ॥२॥
Subject
अथ ब्रह्मणस्पतिर्देवता। अस्मान् किं किं प्राप्नुयादित्याह।
Footnote
१. ऋ० १।४०।३ देवता बृहस्पतिः। य० ३३।८९ देवता विश्वेदेवाः। २. अयमर्थः ऋ० ७।४१।१ इत्यस्य दयानन्दभाष्याद् गृहीतः। ३. धाना करम्भः परीवापः पुरोडाशः पयः इत्येषा हविः—पङ्क्तिः। द्विनाराशंसं प्रातःसवनं, द्विनाराशंसं माध्यन्दिनं सवनं, सकृन्नाराशंसं तृतीयसवनम् एषा नाराशंसपङ्क्तिः। पशुरुपवसथ्यः त्रीणि सवनानि, पशुरनूवन्ध्य इत्येषा सवनपङ्क्तिः। एताभिः पङ्क्तिभिः यः साध्यते एता वा साधयति स पङ्क्तिराधाः तं पङ्क्तिराधसम्—इति वि०। पङ्क्तिराधसं पङ्क्तिभिः हविष्पङ्क्त्यादिभिः आराधनीयं समर्थनीयं यज्ञम्—इति भ०। ४. अयमर्थः ऋ० १।४०।३ इत्यस्य दयानन्दभाष्याद् गृहीतः। ५. एष मन्त्रो दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च ये विदुषः, सत्यां वाचं, सर्वोपकारान् वीरांश्च प्राप्नुयुस्ते सम्यक् सुखोन्नतिं कुर्युः इत्यादिविषये व्याख्यातः।