Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 559

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसा꣢꣯ꣳ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नाꣳ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥५५९॥

वृ꣡षा꣢꣯ । म꣣ती꣢नाम् । प꣣वते । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣢ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣣ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥५५९॥

Mantra without Swara
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसाꣳ दिवः । प्राणा सिन्धूनाꣳ कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥

वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥५५९॥

Samveda - Mantra Number : 559
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विचक्षणः२) विशेषेण द्रष्टा दृष्टिप्रदो वा (सोमः) परमात्मा (मतीनाम्) प्रज्ञानाम् (वृषा) वर्षकः सन् (पवते) उपासकान् प्राप्नोति। स एव (अह्नाम्) दिवसानाम्, (उषसाम्) उषःकालानाम्, (दिवः) सूर्यस्य च (प्रतरीता३) सन्तारकः सञ्चालकश्च भवति। (प्राणा४) सर्वेषां प्राणभूतः सः। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सोः आकारादेशः। (सिन्धूनाम्) नदीनाम् (कलशान्) कल-कल-निनादयुक्तान् प्रवाहान् (अचिक्रदत्) शब्दापयति। स एव (मनीषिभिः५) मनः सन्मार्गे प्रेरणशीलैः स्तोत्रैः। मनः ईषन्ते प्रेरयन्तीति मनीषिणः तैः। (इन्द्रस्य) जीवात्मनः (हार्दि) हृत्प्रदेशे। हृदयवाचिनः हार्द् शब्दस्य सप्तम्येकवचने रूपमिदम्। (आविशन्) प्रविशन्, जायते इति शेषः ॥६॥
Essence
सर्वद्रष्टा, सर्वेषां विवेकप्रदः, उषःसूर्यदिवसादीनां व्यवस्थापयिता, नदीनां निनादयिता परमात्मा सर्वैर्जनैर्हृदि धारणीयः ॥६॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।८६।१९ ऋषिः सिकता निवावरी। ‘क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य’ इति पाठः। अथ० १८।४।५८ ऋषिः अथर्वा। ‘प्राणः सिन्धूनां कलशाँ अचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया’ इत्युत्तरार्धपाठः। साम० ८२१। २. मतीनां व्रतानाम् विचक्षणः विविधं प्रकाशयिता—इति वि०। मतीनां स्तोत्राणां विचक्षणः विद्रष्टा—इति भ०। मतयः स्तोतारः तेषां वृषा वर्षकः कामानाम्। विचक्षणः विद्रष्टा—इति सा०। ३. प्रतरीता प्रकर्षेण तारयिता—इति वि०। प्रवर्द्धयिता—इति सा०। ४. प्रा पूरणे इत्यस्माद्धातोः, पॄ पालनपूरणयोः इत्यस्माद् वा लिटः कानच्। अभ्यासाभावः छान्दसः। सोराकारादेशे रूपं प्राणा इति। पूर्णः। सिन्धूनां नदीनां पूर्णः इत्यर्थः—इति भ०। सिन्धूनां स्यन्दमानानामुदकानां प्राणा, प्रकर्षेण अनिति चेष्टते इति प्राणा, कर्ता सोमः—इति सा०। ५. मनीषिभिः मनसः ईशित्रीभिः स्तुतिभिः—इति सा०।