Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 558

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ध꣣र्ता꣢ दि꣣वः꣡ प꣢वते꣣ कृ꣢त्व्यो꣣ र꣢सो꣣ द꣡क्षो꣢ दे꣣वा꣡ना꣢मनु꣣मा꣢द्यो꣣ नृ꣡भिः꣢ । ह꣡रिः꣢ सृजा꣣नो꣢꣫ अत्यो꣣ न꣡ सत्व꣢꣯भि꣣र्वृ꣢था꣣ पा꣡जा꣢ꣳसि कृणुषे न꣣दी꣢ष्वा ॥५५८॥

ध꣣र्ता꣢ । दि꣣वः꣢ । प꣣वते । कृ꣡त्व्यः꣢꣯ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । नृ꣡भिः꣢꣯ । ह꣡रिः꣢꣯ । सृ꣣जानः꣢ । अ꣡त्यः꣢꣯ । न । स꣡त्व꣢꣯भिः । वृ꣡था꣢꣯ । पा꣡जाँ꣢꣯सि । कृ꣣णुषे । नदी꣡षु꣢ । आ ॥५५८॥

Mantra without Swara
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाꣳसि कृणुषे नदीष्वा ॥

धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुमाद्यः । अनु । माद्यः । नृभिः । हरिः । सृजानः । अत्यः । न । सत्वभिः । वृथा । पाजाँसि । कृणुषे । नदीषु । आ ॥५५८॥

Samveda - Mantra Number : 558
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दिवः) द्युलोकस्य सूर्यस्य वा (धर्ता) धारयिता, (कृत्व्यः२) कर्मसु साधुः, कर्मकुशलः। कृत्वी इति कर्मनाम। निघं० २।१। तत्र साधुः कृत्व्यः। साध्वर्थे यत्। (रसः) आनन्दरसमयः, (देवानाम्) विदुषाम् (दक्षः) बलप्रदः। दक्ष इति बलनाम। निघं० २।९। (नृभिः) पुरुषार्थिभिः मनुष्यैः (अनुमाद्यः) प्रसाद्यः सोमः परमात्मा (पवते) जडचेतनात्मकं सर्वं जगत् पुनाति। अथ प्रत्यक्षकृतमाह। (हरिः) आकर्षणबलेन सूर्यचन्द्रपृथिव्यादिलोकानां नियन्ता (सृजानः) जगत् रचयन् त्वम् (वृथा) अनायासेन (सत्वभिः) स्वकीयैः बलैः (नदीषु) सरित्सु (पाजांसि) बलानि वेगान् वा। पाजः इति बलनाम। निघं० २।९। (आ कृणुषे) आकरोषि। तदेव उपमिमीते, (अत्यः न) अश्वः इव। अश्वो यथा रथादिषु वेगान् आकृणुते तद्वदित्यर्थः। अत्यः इत्यश्वनाम। निघं० १।१४ ॥५॥ अत्र रसः रसवान् दक्षः दक्षकारी इत्यत्र क्रमेण तद्वति तत्कारिणि च लक्षणा। ‘अत्यो न’ इत्युपमा ॥५॥
Essence
यः परमेश्वरः सर्वस्य जगतः स्रष्टा धर्ता बलवेगादिप्रदश्चास्ति स सर्वैर्जनैः कुतो नाराधनीयः ॥५॥
Subject
अथ सोमस्य परमात्मनः कर्माण्याह।
Footnote
१. ऋ० ९।७६।१, ‘कृणुषे’ इत्यत्र ‘कृणुते’ इति पाठः। साम० १२२८। २. कृत्व्यान् कर्मसु साधून् इति ऋ० १।१२१।७ भाष्ये दयानन्दः। कृत्व्यः संस्कृतः—इति भ०। कर्तव्यः शोध्य इत्यर्थः—इति सा०।