Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 557

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣢ ॥५५७॥

प्र꣢ । उ꣣ । अयासीत् । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣢ । न꣢ । प्र । मि꣣नाति । सङ्गि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣लशे꣢ । श꣣त꣡या꣢मना । श꣣त꣢ । या꣣मना । पथा꣢ ॥५५७॥

Mantra without Swara
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥

प्र । उ । अयासीत् । इन्दुः । इन्द्रस्य । निष्कृतम् । निः । कृतम् । सखा । स । खा । सख्युः । स । ख्युः । न । प्र । मिनाति । सङ्गिरम् । सम् । गिरम् । मर्यः । इव । युवतिभिः । सम् । अर्षति । सोमः । कलशे । शतयामना । शत । यामना । पथा ॥५५७॥

Samveda - Mantra Number : 557
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्दुः) तेजसा दीप्तः श्रद्धारसभरितो वा जीवात्मा (इन्द्रस्य) परमात्मनः (निष्कृतम्) शरणरूपं गृहम् (प्र उ अयासीत्) प्रयाति खलु। (सखा) सुहृत् परमात्मा (सख्युः) स्वसुहृदो जीवात्मनः (संगिरम्) स्तुतिं प्रार्थनां च (न प्रमिनाति) न विफलयति, प्रत्युत पूरयत्येव। (मर्यः इव) मनुष्यो यथा (शतयामना पथा) बहुपद्धतिना व्यवहारमार्गेण (युवतिभिः) तरुणीभिः पत्नी-पुत्री-भगिन्यादिभिः सह (समर्षति) संमिलति तथा (सोमः) जीवात्मा (शतयामना पथा) शतसाधनोपेतेन योगमार्गेण (कलशे) परमात्मरूपे द्रोणकलशे (युवतिभिः) तरुणीभिः शक्तिभिः (समर्षति) संगच्छते ॥४॥ अत्र श्लेषेण सोमौषधिरसपरोऽप्यर्थो योजनीयः। ततश्च सोमौषधिरसेन जीवात्मन उपमानोपमेयभावो व्यज्यते। सोमौषधिरसो यथा दशापवित्रस्य बहुच्छिद्रेण मार्गेण द्रोणकलशे अद्भिः सह संगच्छते तथा जीवात्मा बहुसाधने योगमार्गेण परमात्मनि शक्तिभिः संगच्छते इति ॥ ‘मर्य इव युवतिभिः’ इत्यादौ श्लिष्टोपमालङ्कारः ॥४॥
Essence
परमात्मना सह सख्यस्थापनेन मनुष्यस्यात्मा कृतकृत्यो जायते ॥४॥
Subject
अथ परमात्मनो जीवात्मनश्च मैत्रीविषयमाह।
Footnote
१. ऋ–० ९।८६।१६ ऋषिः सिकता निवावरी। ‘शतयाम्ना’ इति पाठः। अथ० १८।४।६० ऋषिः अथर्वा। ‘प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं’ इति ‘मर्य इव योषाः समर्षसे’ इति च प्रथमतृतीयचरणयोर्भेदः। साम० ११५२।