Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 556

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ए꣣ष꣢꣫ प्र कोशे꣣ म꣡धु꣢माꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ व꣢ज्रो꣣ व꣡पु꣢षो꣣ व꣡पु꣢ष्टमः । अ꣣भ्यॄ꣢३त꣡स्य꣢ सु꣣दु꣡घा꣢ घृ꣣त꣡श्चुतो꣢ वा꣣श्रा꣡ अ꣢र्षन्ति꣣ प꣡य꣢सा च धे꣣न꣡वः꣢ ॥५५६॥

ए꣣षः꣢ । प्र । को꣡शे꣢꣯ । म꣡धु꣢꣯मान् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । व꣡ज्रः꣢꣯ । व꣡पु꣢꣯षः । व꣡पु꣢꣯ष्टमः । अ꣣भि꣢꣯ । ऋ꣣त꣡स्य꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । वा꣣श्राः꣢ । अ꣣र्षन्ति । प꣡य꣢꣯सा । च꣣ । धेन꣡वः꣢ ॥५५६॥

Mantra without Swara
एष प्र कोशे मधुमाꣳ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । अभ्यॄ३तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः ॥

एषः । प्र । कोशे । मधुमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुष्टमः । अभि । ऋतस्य । सुदुघाः । सु । दुघाः । घृतश्चुतः । घृत । श्चुतः । वाश्राः । अर्षन्ति । पयसा । च । धेनवः ॥५५६॥

Samveda - Mantra Number : 556
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (मधुमान्) मधुररसमयः परमात्मसोमः (कोशे) अस्माकं मनोमयकोशे (प्र अचिक्रदत्) दिव्यं शब्दं कारयति। क्रदतेः शब्दकर्मणो णिचि लुङि रूपम्। येन (इन्द्रस्य) जीवात्मनः (वज्रः) कामक्रोधादिरिपुगणानां वर्जनसामर्थ्यम् (वपुषः वपुष्टमः२) दीप्तात् दीप्ततमः यद्वा वपुष्मतो वपुष्मत्तमः विशालाद् विशालतमः इत्यर्थः, सञ्जातः। (वाश्राः३) शब्दायमानाः। वाशृ शब्दे। वाशन्ते शब्दायन्ते इति वाश्राः, अत्र ‘स्फायितञ्चि०। उ० २।१२’ इति रक् प्रत्ययः। (धेनवः४) वेदवाग्लक्षणा गावः (ऋतस्य) सत्यस्य (सुदुघाः) सुष्ठु दोग्ध्र्यः, (घृतश्चुतः) तेजोरूपस्य घृतस्य स्रावयित्र्यश्च सत्यः (पयसा च) वेदार्थरूपेण दुग्धेन च सह (अभि अर्षन्ति) अस्मान् प्रति प्राप्नुवन्ति ॥३॥ अत्र वेदवाचि धेनुत्वारोपाद् वेदार्थे च पयस्त्वारोपाद् उपमानेनोपमेयस्य निगरणाच्चातिशयोक्तिरलङ्कारः ॥३॥
Essence
यदा वेदवाग्रूपा धेनवः पवित्रं पावकं च वेदार्थरूपं स्वकीयं पयः पाययन्ति तदा तेन पयसा मनुष्यस्यात्मा सत्यमयस्तेजोमयो बलवत्तमः पवित्रः परिपुष्टश्च जायते ॥३॥
Subject
अथ परमात्मसोमप्राप्तेः फलं वर्णयति।
Footnote
१. ऋ० ९।७७।१ ‘वपुष्टरः’, ‘अभीमृतस्य’, ‘पयसेव धेनवः’ इति पाठः। २. वपुषः वपुष्टमः दीप्तेः दीप्ततमः—इति वि०। वपुषः वपुष्मतः दीप्तिमतः वपुष्टमः दीप्तिमत्तमः—इति भ०। वपुषः बीजानां वप्तुः अन्यस्मात् वपुष्टमः अतिशयेन वप्ता, बीजावापस्य सोमकर्तृकत्वात्, ‘सोमो वै रेतोधाः’ इति श्रुतेः—इति सा०। ३. वाश्राः कामयमानाः—इति वि० [वश कान्तौ]। शब्दयन्त्यः—इति सा०। ४. धेनवः धेट् पाने। पिबन्त्यः उदकम् आदित्यरश्मयः कामयमानाः। क्षरन्ति पयः धेनवः आदित्यरश्मयश्च—इति वि०। धेनवः आशीर्दुहः—इति भ०। ऋतस्य सत्यफलस्य सोमस्य धाराः इति शेषः। वाश्रा धेनवः इव लुप्तोपममेतत्—इति सा०।