Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 555

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣चोद꣡सो꣢ नो धन्व꣣न्त्वि꣡न्द꣢वः꣣ प्र꣢ स्वा꣣ना꣡सो꣢ बृ꣣ह꣢द्दे꣣वे꣢षु꣣ ह꣡र꣢यः । वि꣡ चि꣢दश्ना꣣ना꣢ इ꣣ष꣢यो꣣ अ꣡रा꣢तयो꣣ऽर्यो꣡ नः꣢ सन्तु꣣ स꣡नि꣢षन्तु नो꣣ धि꣡यः꣢ ॥५५५॥

अ꣣चोद꣡सः꣢ । अ꣣ । चोद꣡सः꣢ । नः꣣ । धन्वन्तु । इ꣡न्द꣢꣯वः । प्र꣢ । स्वा꣣ना꣡सः꣢ । बृ꣣ह꣢त् । दे꣣वे꣡षु । ह꣡र꣢꣯यः । वि । चि꣣त् । अश्नानाः꣢ । इ꣣ष꣡यः꣢ । अ꣡रा꣢꣯तयः । अ । रा꣣तयः । अर्यः꣢ । नः꣣ । सन्तु । स꣡नि꣢꣯षन्तु । नः꣣ । धि꣡यः꣢꣯ ॥५५५॥

Mantra without Swara
अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः । वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः ॥

अचोदसः । अ । चोदसः । नः । धन्वन्तु । इन्दवः । प्र । स्वानासः । बृहत् । देवेषु । हरयः । वि । चित् । अश्नानाः । इषयः । अरातयः । अ । रातयः । अर्यः । नः । सन्तु । सनिषन्तु । नः । धियः ॥५५५॥

Samveda - Mantra Number : 555
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अचोदसः) अन्येन केनापि अप्रेरिताः स्वभावनिःसृता इत्यर्थः, (स्वानासः) शब्दकारिणः दिव्यसन्देशवाहिनः इत्यर्थः। स्वनन्ति शब्दायन्ते इति स्वानाः, त एव स्वानासः। (हरयः) पापहारिणः (इन्दवः) ब्रह्मानन्दरसाः (नः) अस्माकम् (देवेषु) राष्ट्रस्य विद्वत्सु, शरीरस्य मनोबुद्धीन्द्रियादिषु वा (बृहत्) बहु (प्र धन्वन्तु) प्रकृष्टतया प्राप्नुवन्तु। धन्वतिः गतिकर्मा। निघं० २।१४। (इषयः) भोगेच्छामात्रपरायणाः। इषु इच्छायाम्। (अश्नानाः) स्वयमेव भुञ्जानाः, (अरातयः) अदानशीलाः (नः अर्यः) अस्माकम् अरयः आध्यात्मिका बाह्याश्च शत्रवः। अत्र ‘जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः। अ० ७।३।१०९ वा०’ इति गुणाभावे यणि रूपम्। (वि चित् सन्तु) अस्मत्तो दूरे एव भवन्तु, (धियः) सद्विचाराश्च (नः) अस्मान् (सनिषन्तु) संभजन्तु। षण सम्भक्तौ भ्वादिः, लोटि सनन्तु इति प्राप्ते बहुलं सिब्विकरणे रूपम् ॥२॥ अत्र नकारादीनामसकृदावर्तनाद् वृत्त्यनुप्रासोऽलङ्कारः। ‘नः सन्तु, नि षन्तु’ इति च छेकानुप्रासः ॥२॥
Essence
अस्माभिर्दुर्विचाररूपाः कामक्रोधादिरूपास्तस्करवञ्चकादिरूपाश्च शत्रवोऽपनेयाः, सद्विचाराः पल्लवनीयाः, ब्रह्मानन्दरसाश्च स्वात्मनि प्रवाहयितव्याः ॥२॥
Subject
अथ ब्रह्मानन्दरसादीन् प्रार्थयते।
Footnote
१. ऋ० ९।७९।१, ‘प्र सुवानासो बृहद्दिवेषु हरयः। वि च नशन् च इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥’ इति पाठः।