Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 554

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते । आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥५५४॥

अ꣣भि꣢ । प्रि꣣या꣡णि꣢ । प꣣वते । च꣡नो꣢꣯हितः । च꣡नः꣢꣯ । हि꣣तः । ना꣡मा꣢꣯नि । य꣣ह्वः꣢ । अ꣡धि꣢꣯ । ये꣡षु꣢꣯ । व꣡र्ध꣢꣯ते । आ । सू꣡र्य꣢꣯स्य । बृ꣣हतः꣢ । बृ꣣ह꣢न् । अ꣡धि꣢꣯ । र꣡थ꣢꣯म् । वि꣡ष्व꣢꣯ञ्चम् । वि । स्व꣣ञ्चम् । अरुहत् । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥५५४॥

Mantra without Swara
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥

अभि । प्रियाणि । पवते । चनोहितः । चनः । हितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । वि । स्वञ्चम् । अरुहत् । विचक्षणः । वि । चक्षणः ॥५५४॥

Samveda - Mantra Number : 554
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चनोहितः) चनसि आस्वादे हितः हितकरः। चनः इत्यन्नाम। निरु० ६।१६। (यह्वः) महान् परमात्मसोमः (प्रियाणि) स्निग्धानि (नामानि) नमनशीलानि हृदयानि (अभि) अभिलक्ष्य (पवते) प्रवाहितो भवति, (येषु अधि) येषु हृदयेषु अयम् (वर्द्धते) वृद्धिमाप्नोति। किञ्च (विचक्षणः) विशेषेण द्रष्टा (बृहन्) महाशक्तिः एष परमात्मा (बृहतः) विशालस्य (सूर्यस्य) आदित्यस्य (वि-स्वञ्चम्) विविधतया शोभनगतियुक्तम्। (रथम् अधि) रथस्योपरि (आ अरुहत्) आरूढवानस्ति। स एव सूर्यमण्डलस्य कार्यविधिं सञ्चालयतीत्यर्थः। “योऽसावादित्ये पुरुषः सोऽसावहम्” (य० ४०।१७) इति श्रुतेः ॥१॥
Essence
सर्वस्याः सूर्यचन्द्रादिसृष्टेः सञ्चालकः परमेश्वरो ध्यातः सन्नुपासकानां हृदये प्रकटीभवति ॥१॥
Subject
तत्रादौ सोमस्य परमात्मनो महिमानमाह।
Footnote
१. ऋ० ९।७५।१, साम० ७००।