Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 553

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रजापतिर्वैश्वामित्रो वाच्यो वा Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ सु꣢न्वा꣣ना꣡यास्यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ त꣡द्वचः꣢꣯ । अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡स꣢ꣳ ह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः ॥५५३॥

प्र꣢ । सु꣣न्वाना꣡य꣢ । अ꣡न्ध꣢꣯सः । म꣡र्तः꣢꣯ । न । व꣣ष्ट । त꣢त् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । ह꣣त꣢ । म꣣ख꣢म् । न । भृ꣡ग꣢꣯वः ॥५५३॥

Mantra without Swara
प्र सुन्वानायास्यान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसꣳ हता मखं न भृगवः ॥

प्र । सुन्वानाय । अन्धसः । मर्तः । न । वष्ट । तत् । वचः । अप । श्वानम् । अराधसम् । अ । राधसम् । हत । मखम् । न । भृगवः ॥५५३॥

Samveda - Mantra Number : 553
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अन्धसः) सोमरसस्य। द्वितीयार्थे षष्ठी। (सुन्वानाय) अभिषवं कुर्वते, सोमयागपरायणाय समाजसेवापरायणाय प्रभुभक्तिपरायणाय वा जनाय, यः (मर्तः) मनुष्यः (तत्) प्रशंसात्मकम् (वचः) वचनम् (न प्र वष्ट) न कामयते, तस्य प्रशंसां न करोति, प्रत्युत तस्मै द्रुह्यतीत्यर्थः। वश कान्तौ अदादिः, आत्मनेपदं छान्दसम्। लडर्थे लङ्, अडागमाभावः। तम् (अराधसम्२) यज्ञस्य, समाजस्य, परमेश्वरस्य च अनाराधकम् (श्वानम्३) श्ववृत्तिं लोभपरायणं स्वोदरंभरिं जनम् (अप हत) दूरीकुरुत। हन्तेर्लोटि मध्यमबहुवचने रूपम्। संहितायाम् ‘द्व्यचोऽतस्तिङः अ० ६।३।१३५’ इत दीर्घः। (न) यथा (भृगवः) तपस्विनो जनाः। भृज्जति तपसा शरीरमिति भृगुः। भ्रस्ज पाके धातोः ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८’ इति कु प्रत्ययः सम्प्रसारणं सकारलोपश्च। (मखम्४) चाञ्चल्यम् अपघ्नन्ति तद्वत्। मख गत्यर्थः, भ्वादिः। यद्वा मखो मखासुरः, छद्मयज्ञो नरः, तं भृगवः तेजस्विनो राजपुरुषाः यथा अपघ्नन्ति दण्डयन्ति तद्वदित्यर्थोऽध्यवसेयः ॥९॥५ ‘श्वानम्’ इत्यत्र साध्यवसानलक्षणामूलोऽतिशयोक्तिरलङ्कारः। निरुक्तपद्धत्या तु लुप्तोपमाऽर्थोपमा व्यङ्ग्योपमा वा, यथाह यास्काचार्यः—“अथ लुप्तोपमान्यर्थोपमानीत्याचक्षते। सिंहो व्याघ्र इति पूजायाम्, श्वा काक इति कुत्सायाम् (निरु० ३।१८)” इति। ‘मखं न भृगवः’ इत्यत्रोपमालङ्कारः ॥९॥
Essence
परमेश्वरद्रोही, यज्ञद्रोही, समाजद्रोही, श्ववद् विषयलुब्धो जनः समाजाद् बहिष्कार्यः ॥९॥ अत्र परमात्मसोमस्य तज्जन्यब्रह्मानन्दरससोमस्य च प्राप्त्युपायवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके द्वितीयार्धे प्रथमा दशतिः ॥ इति पञ्चमेऽध्यायेऽष्टमः खण्डः ॥
Subject
अथ कीदृशो जनः समाजाद् बहिष्कार्य इत्याह।
Footnote
१. ऋ० ९।१०१।१३, एकः प्रजापतिरेव ऋषिः। ‘प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः’ इति पाठः। साम० ७७४, १३८६। २. अराधसम् असमृद्धिहेतुककर्माणम्—इति भ०। ३. श्वानम् श्वानमिव अराधसम्—इति वि०। ४. ‘अमघमिव यथा अमघम् अदातारं यज्ञे न प्रवेशयन्ति तद्वत् भृगवः दीप्ताः यूयं हे मदीयाः जनाः’ इति भरतव्याख्यानं तु पदपाठविरुद्धं स्वरविरुद्धं च। ५. इन्द्रोऽपि मखस्य शिरश्छिनत्ति—त्वं मखस्य दोधतः शिरोऽव त्वचोऽभरः (ऋ० १०।१७१।२)। सायणमते तु ‘यथा पुरा अराधसं मखम् एतन्नामानं भृगवोऽपहतवन्तः तथा अपहतेत्यर्थः।’