Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 552

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वा꣣ꣳ इ꣢꣫त्परि꣣ म꣡दे꣢न स꣣ह꣡ गच्छ꣢꣯ति ॥५५२॥

प꣡रि꣢꣯ । त्यम् । ह꣣र्यतम् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इत् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥५५२॥

Mantra without Swara
परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाꣳ इत्परि मदेन सह गच्छति ॥

परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥५५२॥

Samveda - Mantra Number : 552
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
योगसाधनपरायणा जनाः (त्यम्) तम्। अस्ति तावद् वेदे त्यच्छब्दः तच्छब्दपर्यायः। (हर्यतम्) स्पृहणीयम्, (बभ्रुम्) शरीरस्य भरणपोषणकर्तारम्। बिभर्तीति बभ्रुः, डुभृञ् धारणपोषणयोः ‘कुर्भ्रश्च। उ० १।२२’ इति कु प्रत्ययो धातोर्द्वित्वं च। (हरिम्) स्वकीयम् आत्मानम् (वारेण) दोषनिवारकेण यमनियमादिना ईश्वरप्रणिधानेन च (पुनन्ति) शोधयन्ति, (यः) आत्मा (मदेन सह) आनन्देन सार्धम् (विश्वान् इत्) सर्वान् एव (देवान्) प्राणमनोबुद्धिचित्ताहङ्कारेन्द्रियादीन् (परिगच्छति) व्याप्नोति ॥ सोमौषधिरसरूपः सोमोऽपि हरिरुच्यते। श्लेषेण तत्पक्षेऽप्यर्था योजनीयः। तत्पक्षे बभ्रुः बभ्रुवर्णः। वारः अविबालनिर्मितं दशापवित्रम्, येन सोमरसं पुनन्ति। स च सोमरसः मदेन सह सर्वान् पातॄन् गच्छति ॥८॥
Essence
असत्यहिंसाछलकपटसंशयप्रमादालस्यभ्रान्त्यादिदोषैर्दूषितं स्वकीयमात्मानं योगोपायैः संशोध्यैव मनुष्यः पारमार्थिकमैहिकं चोत्कर्षं प्राप्तुमर्हति ॥८॥
Subject
अथ जीवात्मनः शोधनविषयमाह।
Footnote
१. ऋ० ९।९८।७।