Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 551

1875 Mantra
Devata- पवमानः सोमः Rishi- रेभसूनू काश्यपौ Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
आ꣡ ह꣢र्य꣣ता꣡य꣢ धृ꣣ष्ण꣢वे꣣ ध꣡नु꣢ष्टन्वन्ति꣣ पौ꣡ꣳस्य꣢म् । शु꣣क्रा꣢꣫ वि य꣣न्त्य꣡सु꣢राय नि꣣र्णि꣡जे꣢ वि꣣पा꣡मग्रे꣢꣯ मही꣣यु꣡वः꣢ ॥५५१॥

आ꣢ । ह꣣र्यता꣡य꣢ । धृ꣣ष्ण꣡वे꣢ । ध꣡नुः꣢꣯ । त꣣न्वन्ति । पौँ꣡स्य꣢꣯म् । शु꣣क्राः꣢ । वि । य꣣न्ति । अ꣡सु꣢꣯राय । अ । सु꣣राय । निर्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । वि꣣पा꣢म् । अ꣡ग्रे꣢꣯ । म꣣हीयु꣡वः꣢ ॥५५१॥

Mantra without Swara
आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौꣳस्यम् । शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः ॥

आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पौँस्यम् । शुक्राः । वि । यन्ति । असुराय । अ । सुराय । निर्णिजे । निः । निजे । विपाम् । अग्रे । महीयुवः ॥५५१॥

Samveda - Mantra Number : 551
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हर्यताय) स्पृहणीयाय। हर्य गतिकान्त्योः ‘भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच्’ उ० ३।११० इत्यतच् प्रत्ययः। (धृष्णवे) कामादिशत्रूणां धर्षणशीलाय सोमाय परमात्मने, सोमं परमात्मानं प्राप्तुमित्यर्थः। हर्यताय, धृष्णवे इत्यत्र ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः। अ० २।३।१४’ इति कर्मणि कारके चतुर्थी। योगसाधका जनाः (पौंस्यम्) पुरुषार्थरूपम्। पौंस्यमिति बलनाम। निघं० २।९। पुंसो भावः कर्म वा पौंस्यम्। (धनुः) चापम् (आ तन्वन्ति) अधिज्यं कुर्वन्ति, तत्र ध्यानरूपां प्रत्यञ्चामधिरोहयन्तीति भावः। (शुक्राः) पवित्रान्तःकरणाः ते (महीयुवः) पूजाकामाः साधकाः। महीं पूजामिच्छन्तीति ते, क्यचि ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः। (असुराय) प्राणप्रदातुः जीवात्मनः। असून् प्राणान् राति ददातीत्यसुरः। षष्ठ्यर्थे चतुर्थी। (निर्णिजे) शोधनाय। निर् पूर्वाद् णिजिर् शौचपोषणयोः इति क्विबन्तस्य चतुर्थ्येकवचने रूपम्। (विपाम्) मेधाविनाम्। विप इति मेधाविनाम निघं–० ३।१५। (अग्रे) सम्मुखम् (वि यन्ति) विशेषतः शिष्यभावेन गच्छन्ति ॥७॥ अत्र पौंस्ये धनुष्ट्वस्यारोपणाद् रूपकालङ्कारः। योगसाधनायां धनुषो रूपकं मुण्डकेऽपि प्रपञ्चितम्। तथाहि—“धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत। आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्” इति मु० २।२।३,४ ॥७॥
Essence
योगसाधका जनाः स्वपुरुषार्थेन, ध्यानेन, गुरोः कृपया च स्वकीयमात्मानं संशोध्य परमात्मानं प्राप्तुमर्हन्ति ॥७॥
Subject
अथ सोमं परमेश्वरमधिगन्तुमुपासका जनाः किं कुर्वन्तीत्युच्यते।
Footnote
१. ऋ० ९।९९।१ ‘धनुस्तन्वन्ति’ इति ‘शुक्रां वयन्त्यसुराय निर्णिजं’ इति च पाठः।