Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 550

1875 Mantra
Devata- पवमानः सोमः Rishi- रेभसूनू काश्यपौ Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣भी꣡ न꣢वन्ते अ꣣द्रु꣡हः꣢ प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । व꣣त्सं꣢꣫ न पूर्व꣣ आ꣡यु꣢नि जा꣣त꣡ꣳ रि꣢हन्ति मा꣣त꣡रः꣢ ॥५५०॥

अ꣣भि꣢ । न꣣वन्ते । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । प्रि꣣य꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । व꣣त्स꣢म् । न । पू꣡र्वे꣢꣯ । आ꣡यु꣢꣯नि । जा꣣त꣢म् । रि꣣हन्ति । मात꣡रः꣢ ॥५५०॥

Mantra without Swara
अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । वत्सं न पूर्व आयुनि जातꣳ रिहन्ति मातरः ॥

अभि । नवन्ते । अद्रुहः । अ । द्रुहः । प्रियम् । इन्द्रस्य । काम्यम् । वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः ॥५५०॥

Samveda - Mantra Number : 550
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अद्रुहः) न द्रुह्यन्ति प्रत्युत स्निह्यन्ति यास्ताः (मातरः) जननीवत् पालयित्र्यः मनोवृत्तयः (प्रियम्) स्निग्धम्, (इन्द्रस्य) जीवात्मनः (काम्यम्) अभिलषणीयम् सोमं परमात्मानम् (अभि) अभिलक्ष्य (नवन्ते) गच्छन्ति। नवते गतिकर्मा। निघं० २।१४। (जातम्) हृदि आविर्भूतं च तम् (रिहन्ति) लिहन्ति, आस्वादयन्ति, तेन संसृज्यन्ते इत्यर्थः। रिह आस्वादने। (जातम्) उत्पन्नम् (वत्सम्) स्वतर्णकम् (न) यथा (पूर्वे आयुनि) प्रथमे वयसि। अत्र छान्दसस्य उकारान्तस्य आयुशब्दस्य नपुंसि सप्तम्येकवचने रूपं विज्ञेयम्। (मातरः) तज्जनन्यो धेनवः (रिहन्ति) जिह्वया लिहन्ति ॥६॥ अत्र श्लिष्टोपमालङ्कारः। लेहनं तावज्जिह्वया भवति, तच्च मनोवृत्तीनां पक्षे न घटते। तेनात्र लक्षणया संसर्गार्थो बोध्यते, सामीप्यातिशयश्च व्यङ्ग्यः। धेनुपक्षे तु जिह्वया लेहनं संभवत्येव, अतस्तत्र न लक्षणा ॥६॥
Essence
यथा नवजातं वत्सं धेनवः प्रेम्णा लिहन्ति, तथैव हृदि प्रादुर्भूतं परमेश्वरं मनोवृत्तयस्तत्प्रेमपरिप्लुताः सत्य आस्वादयन्ति ॥६॥
Subject
अथ मनोवृत्तयः परमात्मानं कथमास्वादयन्तीत्याह।
Footnote
१. ऋ० ९।१००।१।