Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 55

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओ꣢हते ॥५५॥

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा꣣ । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥५५॥

Mantra without Swara
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥

देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥५५॥

Samveda - Mantra Number : 55
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! (द्रविणोदाः२) द्रविणः धनं बलं वा, तस्य दाता (देवः) दिव्यगुणः परमेश्वरः (वः) युष्माकम् (पूर्णाम्) श्रद्धारससोमेन परिपूर्णाम् (आसिचम्३) आसिञ्चन्ति अनया ताम् मनोरूपां स्रुचम् (विविष्टु४) कामयताम्। वष्टि कान्तिकर्मा। निघं० २।६। वश कान्तौ अदादिः। बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ रूपम्। यूयम् (उत् सिञ्चध्वं वा) श्रद्धारसेन तं परमेश्वरं स्नपयत च, (उप पृणध्वं वा) उपप्रीणयत च। वा शब्दः समुच्चये। अथापि समुच्चये भवति इति निरुक्तम्। १।५। (आत् इत्) तदनन्तरमेव (देवः) परमेश्वरः (वः) युष्मान् (ओहते५) वहति, लक्ष्यं प्रापयिष्यति। वह प्रापणे धातोः छान्दसे सम्प्रसारणे गुणे च रूपम् ॥१॥६
Essence
सर्वैरुपासकजनैः स्वकीयाभिः प्रेमरसपूर्णाभिर्मनोरूपाभिः स्रग्भिः परमेश्वरः श्रद्धारसेन सेचनीयः प्रीणनीयश्च। एवं सिक्तः प्रीतश्च स उपासकान् तन्निर्धारितं लक्ष्यं प्रति वहति ॥१॥
Subject
अथ द्वितीयोऽर्धः अथाद्ये मन्त्रे जनाः प्रेर्यन्ते।
Footnote
१. ऋ० ७।१६।११, विवष्ट्यासिचम् इति पाठः। २. धनं द्रविणमुच्यते यदेनदभिद्रवन्ति, बलं वा द्रविणं यदेनेनाभिद्रवन्ति, तस्य दाता द्रविणोदाः इति निरुक्तम्। ८।१। वस्तुतस्तु सकारान्ताद् द्रविणस् शब्दान्निष्पन्नमिदं रूपम्। द्रष्टव्या प्रथमदशतौ ४ संख्याके मन्त्रे द्रविणस्युशब्दे टिप्पणी। (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वा। ... द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् इत्यसुन् प्रत्ययः इति ऋ० १।१५।७ भाष्ये द०। ˜३. आसिचम् आज्यपूर्णां स्रुचम्—इति वि०। आसिक्तां हविषा जुहूम्—इति भ०। आसिक्तां च स्रुचम्—इति सा०। ४. विवष्टु कामयताम्, द्वित्वसन्वद्भावौ छान्दसौ—इति भ०। ५. ओहते वर्धयति—इति वि०। वहतु प्रापयतु कामान्—इति भ०। वहति—इति सा०। वितर्कयति इति ऋग्भाष्ये द०। (ऊह वितर्के)। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये विद्वत्पक्षे व्याख्यातः।