Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 549

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मꣳ र꣣यि꣡म꣢र्ष शत꣣स्पृ꣡ह꣢म् । इ꣡न्दो꣢ स꣣ह꣡स्र꣢भर्णसं तुविद्यु꣣म्नं꣡ वि꣢भा꣣स꣡ह꣢म् ॥५४९॥

अ꣣भि꣢ । नः꣣ । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । र꣣यि꣢म् । अ꣣र्ष । शतस्पृ꣡ह꣢म् । श꣣त । स्पृ꣡ह꣢꣯म् । इ꣡न्दो꣢꣯ । स꣣ह꣡स्र꣢भर्णसम् । स꣣ह꣡स्र꣢ । भ꣣र्णसम् । तुविद्युम्न꣢म् । तु꣣वि । द्युम्न꣢म् । वि꣣भास꣡ह꣢म् । वि꣣भा । स꣡ह꣢꣯म् ॥५४९॥

Mantra without Swara
अभी नो वाजसातमꣳ रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥

अभि । नः । वाजसातमम् । वाज । सातमम् । रयिम् । अर्ष । शतस्पृहम् । शत । स्पृहम् । इन्दो । सहस्रभर्णसम् । सहस्र । भर्णसम् । तुविद्युम्नम् । तुवि । द्युम्नम् । विभासहम् । विभा । सहम् ॥५४९॥

Samveda - Mantra Number : 549
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) आनन्दरसेन क्लेदक परमात्मन् ! त्वम् (वाजसातमम्) अतिशयेन बलस्य प्रदातारम्। वाजं बलं सनोति ददातीति वाजसाः, वाजोपपदात् षणु दाने धातोः ‘जनसनखनक्रमगमो विट्। अ० ३।२।६७’ इति नकारस्यात्वम्। ततोऽतिशायने तमप् प्रत्ययः। (शतस्पृहम्) बहुभिः स्पृहणीयम् (सहस्रभर्णसम्२) सहस्रगुणानां धारयितारम्, यद्वा सहस्राणां जनानां पोषयितारम्। सहस्रं बिभर्तीति सहस्रभर्णाः तम्। (तुविद्युम्नम्) बहुयशस्करम्। (विभासहम्३) शत्रुप्रतापस्य अभिभावकम्। विभां शात्रवं तेजः सहते पराभवतीति तम्। (रयिम्) आध्यात्मिकं भौतिकं च ऐश्वर्यम् (नः) अस्मान् (अभि अर्ष) प्रापय। संहितायाम् ‘अभी’ इति दीर्घश्छान्दसः ॥५॥
Essence
परमात्मनः कृपया स्वपुरुषार्थेन च सर्वैः सत्याहिंसाऽणिममहिमलघिमादिकमाध्यात्मिकं स्वर्णरजतमणि- मुक्तादिकं भौतिकं च धनं प्राप्तुं शक्यते, येनात्मिकं शारीरं च बलं, सहस्रगुणगणं, सहस्राणां पोषणसामर्थ्यं, कीर्तिं चाप्तुं शत्रूणां तेजः पराभवितुं च ते क्षमन्ते ॥५॥
Subject
अथ सोमं परमात्मानं धनं प्रार्थयते।
Footnote
१. ऋ० ९।९८।१, ‘अभी, शतस्पृहम्, विभासहम्’ इत्यत्र क्रमेण ‘अभि, पुरुस्पृहम्, विभ्वासहम्’ इति पाठः। साम० १२३८। २. सहस्रभर्णसं बहूनां पोषकम्—इति भ०। बहुविधभरणम् अनेकपोषणयुक्तमित्यर्थः—इति सा०। ३. विभासहं विदीप्तीनां शत्रूणाम् अभिभवितारम्—इति भ०। महतः प्रकाशस्याभिभवितारम् अतितेजस्विनमित्यर्थः—इति सा०।