Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 547

1875 Mantra
Devata- पवमानः सोमः Rishi- ययातिर्नाहुषः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरन्दे꣣वा꣡न्ग꣢च्छन्तु वो꣢ म꣡दाः꣢ ॥५४७॥

सु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । मन्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣢न् । ग꣣च्छन्तु । वः । म꣡दाः꣢꣯ ॥५४७॥

Mantra without Swara
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥

सुतासः । मधुमत्तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥५४७॥

Samveda - Mantra Number : 547
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मधुमत्तमाः) अतिशयमधुराः (मन्दिनः) हर्षकराः (सोमाः) परमानन्दरसाः (इन्द्राय) जीवात्मने (सुतासः) अभिषुताः (पवित्रवन्तः२) मनोरूपदशापवित्रयुक्ताः (अक्षरन्) आत्मकलशं प्र क्षरन्ति। ते (मदाः) परमानन्दरसाः (वः) युष्मान् (देवान्) सर्वान् विदुषः (गच्छन्तु) प्राप्नुवन्तु ॥३॥
Essence
ध्यानद्वारा परमात्मनः सकाशात् प्रादुर्भूता मधुरमधुराः परमानन्दरसा मनसो माध्यमेन जीवात्मानमधिगच्छन्ति ॥३॥
Subject
अथ परमानन्दरूपसोमरसविषयमाह।
Footnote
१. ऋ० ९।१०१।४, साम० ८७२, अथ० २०।१३७।४। २. पवित्रवन्तः दशापवित्रेण संसृष्टाः—इति भ०।