Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 545

1875 Mantra
Devata- पवमानः सोमः Rishi- अन्धीगुः श्यावाश्विः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢ । अ꣢प꣣ श्वा꣡न꣢ꣳश्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥५४५॥

पु꣣रो꣡जि꣢ती । पु꣣रः꣢ । जि꣣ती । वः । अ꣡न्ध꣢꣯सः । सु꣣ता꣡य꣢ । मा꣣दयित्न꣡वे꣢ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । श्न꣣थिष्टन । श्नथिष्ट । न । स꣡खा꣢꣯यः । स । खा꣣यः । दीर्घजिह्व्य꣢꣯म् । दी꣣र्घ । जिह्व्य꣢꣯म् । ॥५४५॥

Mantra without Swara
पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳश्नथिष्टन सखायो दीर्घजिह्व्यम् ॥

पुरोजिती । पुरः । जिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । श्नथिष्ट । न । सखायः । स । खायः । दीर्घजिह्व्यम् । दीर्घ । जिह्व्यम् । ॥५४५॥

Samveda - Mantra Number : 545
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः ! (वः) यूयम् (अन्धसः) आध्यायनीयस्य परमात्मरूपस्य सोमस्य। अन्धः आध्यायनीयं भवति। निरु० ५।१। (मादयित्नवे) हर्षकरस्य (सुताय) आनन्दरसस्य। उभयत्र षष्ठ्यर्थे चतुर्थीति वक्तव्यम् अ० २।३।६२ वा० इत्यनेन षष्ठ्यर्थे चतुर्थी। (पुरोजिती) पुरोजित्यै अग्रेजयाय। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति चतुर्थ्येकवचनस्य पूर्वसवर्णदीर्घः। (दीर्घजिह्व्यम्) दीर्घजिह्वम्, सततविस्तारशीलम्। दीर्घा जिह्वा यस्य स दीर्घजिह्वः, ततः ‘पादार्घाभ्यां च। अ० ५।४।२५’ इत्यत्र चकारस्यानुक्तसमुच्चयत्वेन दीर्घजिह्वशब्दात् स्वार्थे यत् प्रत्ययः२। (श्वानम्३) सांसारिकविषयलालसारूपम् सारमेयस्वभावम् (अप श्नथिष्टन) स्वान्तःकरणात् विनाशयत। श्नथतिः हन्तिकर्मा। निघं० २।१९। ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तनादेशः। सांसारिकविषयेभ्यो मनः प्रतिनिवर्त्य परमात्मन्येव केन्द्रीकुरुतेति भावः ॥१॥४ अत्र लोभस्य श्वशब्देन कथनादसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१॥
Essence
दीर्घजिह्वया विषयरसान् लेलिहानं लोभरूपं श्वानं विनाश्यैव जनैः परमात्मयोगजन्योऽमन्दानन्दोऽधिगन्तुं शक्यते ॥१॥
Subject
तत्रादौ परमानन्दमाप्तुं किं कर्तव्यमित्याह।
Footnote
१. ऋ० ९।१०१।१, साम० ६९७। २. दीर्घा जिह्वा अस्य स दीर्घजिह्वी ‘दीर्घजिह्वी च छन्दसि’ अ० ४।१।५९ इति ङीषन्तत्वेन निपातितः। तादृशम्—इति सा०। तत्तु न समञ्जसम्, ‘श्वानम्’ इति पुल्लिङ्गेन ‘दीर्घजिह्व्यम्’ इति स्त्रिया घटनाऽयोगात्। ३. श्वानम् कञ्चिदुपद्रवकर्तारम् अपघ्नत—इति वि०। श्वानम् उपघातकम्—इति भ०। यथा श्वा राक्षसा वा सुतं सोमं न लिहन्ति तथा कुरुत—इति सा०। ४. पशुपक्ष्यादिनामभिः केषाञ्चिद् दुर्गुणानां व्यक्तीकरणं वेदेष्वन्यत्रापि दृश्यते। यथा ‘समिन्द्र गर्दभं मृण नुवन्तं पापयामुया। ऋ० १।२९।५’, ‘उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्। ऋ० ७।१०४।२२’ इत्यादौ।