Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 544

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रस्कण्वः काण्वः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣पा꣢मि꣣वे꣢दू꣣र्म꣣य꣣स्त꣡र्त्तुराणाः꣢ प्र꣡ म꣢नी꣣षा꣡ ई꣢रते꣣ सो꣢म꣣म꣡च्छ꣢ । न꣣मस्य꣢न्ती꣣रु꣡प꣢ च꣣ य꣢न्ति꣣ सं꣡ चाच꣢꣯ विशन्त्युश꣣ती꣢रु꣣श꣡न्त꣢म् ॥५४४॥

अ꣣पा꣢म् । इ꣣व । इ꣢त् । ऊ꣣र्म꣡यः꣢ । त꣡र्त्तु꣢꣯राणाः । प्र । म꣣नीषाः꣢ । ई꣣रते । सो꣡म꣢꣯म् । अ꣡च्छ꣢꣯ । न꣣मस्य꣡न्तीः꣢ । उ꣡प꣢꣯ । च꣣ । य꣡न्ति꣢꣯ । सम् । च꣣ । आ꣢ । च꣣ । विशन्ति । उशतीः꣢ । उ꣣श꣡न्त꣢म् ॥५४४॥

Mantra without Swara
अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ । नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् ॥

अपाम् । इव । इत् । ऊर्मयः । तर्त्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ । नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥५४४॥

Samveda - Mantra Number : 544
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अपाम्) उदकानाम् (ऊर्मयः इव) लहर्यः इव (इत्) निश्चयेन (तर्त्तुराणाः२) अतिशयेन त्वरमाणाः (मनीषाः) मदीयाः प्रज्ञाः (सोमम् अच्छ) रसागारं परमात्मानं प्रति (प्र ईरते) प्रकर्षेण यन्ति। किञ्च, ताः (नमस्यन्तीः) सोमाख्यं परमात्मानं नमस्कुर्वन्त्यः (उप यन्ति च) उपगच्छन्ति च (सं यन्ति च) संगच्छन्ते च। (उशतीः) उशत्यः कामयमानाः ताः (उशन्तम्) कामयमानं तं परमात्मानम् (आ विशन्ति च) समन्ततः प्रविशन्ति च ॥१२॥ अत्र ‘अपामिवेदूर्मयः’ इत्यादौ पूर्णोपमालङ्कारः ॥१२॥
Essence
यथा नदीनामूर्मयः क्वचिन्निम्ना भवन्ति, क्वचित् परस्परम् उपयन्ति, क्वचिच्च संयन्ति, सुदीर्घं च मार्गं तीर्त्वाऽन्ततः समुद्रमाविशन्ति, तथैव स्तोतुर्मनीषा अपि परस्परमुपगच्छन्त्यः संगच्छन्त्यश्च परमात्मानमुपधावन्ति तमाविशन्ति च ॥१२॥ अत्र परमात्मसोमस्य सेनानीत्वेनानन्दधाराप्रवाहकत्वेन पापादिनाशकत्वेन ज्योतिर्जनकत्वेन च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके प्रथमार्द्धे पञ्चमी दशतिः ॥ इति पञ्चमेऽध्याये सप्तमः खण्डः ॥
Subject
अथ स्तोतुर्मनीषाः सोमं परमात्मानं प्रति कथं यन्तीत्याह।
Footnote
१. ऋ० ९।९५।३। २. तर्तुराणाः—तुर त्वरणे जौहोत्यादिकः, यङ्लुगन्तस्य शानचि रूपम्। अभ्यासस्य उवर्णस्य रेफादेशश्छान्दसः। अभ्यस्तस्वरः। तादृशाः ऋत्विजः—इति सा०।