Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 543

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡स꣢र्जि꣣ व꣢क्वा꣣ र꣢थ्ये꣣ य꣢था꣣जौ꣢ धि꣣या꣢ म꣣नो꣡ता꣢ प्रथ꣣मा꣡ म꣢नी꣣षा꣣ । द꣢श꣣ स्व꣡सा꣢रो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ मृ꣣ज꣢न्ति꣣ व꣢ह्नि꣣ꣳ स꣡द꣢ने꣣ष्व꣡च्छ꣢ ॥५४३॥

अ꣡स꣢꣯र्जि । व꣡क्वा꣢꣯ । र꣡थ्ये꣢꣯ । य꣡था꣢꣯ । आ꣣जौ꣢ । धि꣣या꣢ । म꣣नो꣡ता꣢ । प्र꣣थमा꣢ । म꣣नीषा꣢ । द꣡श꣢꣯ । स्व꣡सा꣢꣯रः । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । मृ꣣ज꣡न्ति꣢ । व꣡ह्नि꣢꣯म् । स꣡द꣢꣯नेषु । अ꣡च्छ꣢꣯ ॥५४३॥

Mantra without Swara
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीषा । दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निꣳ सदनेष्वच्छ ॥

असर्जि । वक्वा । रथ्ये । यथा । आजौ । धिया । मनोता । प्रथमा । मनीषा । दश । स्वसारः । अधि । सानौ । अव्ये । मृजन्ति । वह्निम् । सदनेषु । अच्छ ॥५४३॥

Samveda - Mantra Number : 543
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यथा) येन प्रकारेण (रथ्ये) रथैः योद्धुमर्हे (आजौ) सङ्ग्रामे। आजिः इति सङ्ग्रामनाम निघं० २।१७। (वक्वा२) शब्दकर्ता अश्वः (असर्जि) प्रेर्यते, तथा (मनोता३) मना ज्ञानानि ओतानि यस्यां सा मनोता तया, (प्रथमा) प्रथमया श्रेष्ठया (मनीषा) मनसः प्रेरयित्र्या। मनः ईषयते गमयति इति मनीषा तया। ईषतिः गतिकर्मा। निघं० २।१४। मनोता, प्रथमा, मनीषा इति सर्वत्र तृतीयैकवचने ‘सुपां सुलुक्’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (धिया) बुद्ध्या, (वक्वा) शब्दकर्ता प्राणः (असर्जि) प्रेर्यते। यथा च (दश) दशसंख्यकाः (स्वसारः) अङ्गुलयः। स्वसारः इत्यङ्गुलिनामसु पठितम्। निघं० २।५। (सदनेषु अच्छ) यज्ञगृहेषु (अव्ये) अविबालमये (सानौ अधि) उच्छ्रिते दशापवित्रे (वह्निम्४) यज्ञस्य वाहकं सोमौषधिरसम् (मृजन्ति) शोधयन्ति। मृजूष् शुद्धौ, अदादिः। तथा (दश) दशसंख्यकाः (स्वसारः) भगिनीवत् परस्परसम्बद्धाः प्राणशक्तयः (सदनेषु अच्छ) देहरूपेषु सदनेषु (अव्ये) अव्यये नाशरहिते (सानौ अधि) उच्छ्रिते परमात्मनि, परमात्मसान्निध्ये इत्यर्थः। (वह्निम्) शरीरस्य वाहकं जीवात्मानम् (मृजन्ति) शोधयन्ति ॥११॥ अत्र पूर्वार्द्धे वाच्य उपमालङ्कारः। उत्तरार्द्धे श्लेषमूला व्यङ्ग्योपमा। ‘मनो, मनी’ इति छेकानुप्रासः। ‘मनोता, प्रथमा, मनीषा’ इत्यत्र मकारानुप्रासः। ‘रथ्ये यथाजौ धिया’ इत्यत्र च यकारानुप्रासः ॥११॥
Essence
परमात्मन आश्रयं प्राप्य जीवात्मा तथैव शुद्ध्यति यथा दशापवित्रं प्राप्य सोमरसः ॥११॥
Subject
अथ प्राणप्रेरणजीवात्मशोधनविषयमाह।
Footnote
१. ऋ० ९।६१।१ ‘प्रथमो मनीषी’ इति ‘अव्येऽजन्ति वह्निं सदनान्यच्छ’ इति च पाठः। २. वक्वा शब्दायमानः, वच परिभाषणे, वनिप्—इति सा०। अन्ये तु तृतीयान्तत्वेन व्याचक्षिरे। ‘वक्वा वक्त्रा’—इति वि०। ‘वक्वा स्तोत्रा वचेर्वकुः’—इति भ०। ३. ओतानि मनांसि देवानां यस्मिन् सोमे स मनोता—इति वि०। यस्यां (धियाम्) देवानां मनांसि ओतानि स मनोता—इति भ०। ४. वह्निं वोढारं यज्ञस्य—इति भ०।