Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 542

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥५४२॥

म꣣ह꣢त् । तत् । सो꣡मः꣢꣯ । म꣣हिषः꣢ । च꣣कार । अ꣣पा꣢म् । यत् । ग꣡र्भः꣢꣯ । अ꣡वृ꣢꣯णीत । दे꣣वा꣢न् । अ꣡द꣢꣯धात् । इ꣡न्द्रे꣢꣯ । प꣡व꣢꣯मानः । ओ꣡जः꣢꣯ । अ꣡ज꣢꣯नयत् । सू꣡र्ये꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्दुः꣢꣯ ॥५४२॥

Mantra without Swara
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥

महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् । अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥५४२॥

Samveda - Mantra Number : 542
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(महिषः) महान्। महिषः इति महन्नाम। निघं० ३।३ (सोमः२) सोमौषधिवद् रसागारः, चन्द्रवदाह्लादकः प्रेरकश्च परमेश्वरः (तत्) प्रसिद्धम् अग्रे निर्दिश्यमानम् (महत्) महिमान्वितं कर्म (चकार) करोति, (यद् अपां गर्भः) सर्वेषां प्राणेषु गर्भवद् विद्यमानः सः। प्राणा वा आपः (तै० ३।२।५।२)(देवान्) मनःसहितानि सर्वाणि चक्षुःश्रोत्रादीनि इन्द्रियाणि (अवृणीत) रक्ष्यत्वेन स्वीकरोति। (पवमानः) पवित्रतासंपादकः सः (इन्द्रे) जीवात्मनि विद्युति वा (ओजः) पवित्रतां बलं वा (अदधात्) स्थापयति। (इन्दुः) दीप्तिमयः प्रकाशमयः सः (सूर्ये) आदित्ये (ज्योतिः) प्रकाशम् (अदधात्) दधाति, यद्वा (सूर्ये) शरीरस्थे चक्षुषि। आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् इति स्मरणात्। ऐ० उ० २।४। (ज्योतिः) दर्शनशक्तिम् (अदधात्) स्थापयति ॥१०॥ एष मन्त्रो यास्काचार्येण निरुक्ते १४।१७ इत्यत्र व्याख्यातः। अत्र इन्दुशब्दस्य प्रसिद्धे चन्द्रार्थे गृहीते ‘इन्दुः चन्द्रः अपि सूर्ये ज्योतिः अजनयत्’ इति विरोधे सूर्यश्चन्द्रे ज्योतिर्जनयति, न तु चन्द्रः सूर्ये इत्यतः। स च विरोधः इन्दुशब्दस्य योगार्थग्रहणेन समाधीयते, विरोधवाचकस्य अपिशब्दस्याभावाद् विरोधाभासो व्यङ्ग्यः ॥१०॥
Essence
शरीराभ्यन्तरे मनश्चक्षुःश्रोत्रादौ, बाह्यजगति च सूर्यचन्द्रविद्युत्पर्जन्यादौ यत् सामर्थ्यं ज्योतिर्वा विद्यते तत्तत्सर्वं परमात्मनैव प्रदत्तमस्ति ॥१०॥
Subject
अथ सोमस्य परमात्मनः महत् कर्म वर्ण्यते।
Footnote
१. ऋ० ९।९७।४१, साम० १२५५। २. अधिदैवतपक्षे महत् सोमः आदित्यः। महिषः पूजनीयः महत्त्वात्। ज्योतिरिन्दुः आदित्यः। अध्यात्मम्—सोमः अहो महदसंभाव्यं तत्कर्म। महिषः पूजनीयः। अपां यद् गर्भः दर्शनमात्रम्। पञ्चानां भूतानां गर्भः अधिष्ठानं भूत्वा। अवृणीत अधिष्ठितवान्। देवान् इन्द्रियाणि। अवृणीत शरीरमध्ये तिष्ठतीति कृत्वा। अदधादिन्द्रे आत्मनि ईश्वरे, पवमानः पूयमानः विषयप्रमाणेन। ओजः बलम् अणिमादि। अजनयच्च सूर्ये ज्योतिः। तथा चोक्तम्—‘येन सूर्यस्तपति तेज इन्द्रः’—इति वि०।