Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 541

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥५४१॥

अ꣣या꣢ । प꣣वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । माँ꣣श्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣣ति꣢म् । पु꣣रुमे꣡धाः꣢ । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥५४१॥

Mantra without Swara
अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥

अया । पवा । पवस्व । एना । वसूनि । माँश्चत्वे । इन्दो । सरसि । प्र । धन्व । ब्रध्नः । चित् । यस्य । वातः । न । जूतिम् । पुरुमेधाः । पुरु । मेधाः । चित् । तकवे । नरम् । धात् ॥५४१॥

Samveda - Mantra Number : 541
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) रसेनार्द्रीकर्तः परमात्मन् ! त्वम् (अया) अनया (पवा२) प्रवाहवत्या धारया (एना) एनानि वसूनि सत्याहिंसाप्रभृतीनि ऐश्वर्याणि (पवस्व) क्षर। (मांश्चत्वे३) मीयन्ते शब्द्यन्ते इति माः शब्दाः, मान् स्तुतिशब्दान् चातयति गमयति उत्थापयतीति मांश्चत्वं तस्मिन्, स्तुतिशब्दयुक्ते इत्यर्थः माङ् माने शब्दे च। चततिः गतिकर्मा। निघं० २।१४। (सरसि) मम हृदयसरोवरे (प्र धन्व) प्रकर्षेण याहि। धन्वतिः गतिकर्मा। निघं० २।१४। (यस्य) यस्य तव (ब्रध्नः चित्) महान्। ब्रध्न इति महन्नाम। निघं० ३।३। (वातः) वायुः (न) यथा (जूतिम्) वेगम्। जु गतौ धातोः ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ अ० ३।३।९७ इति क्तिनि दीर्घत्वं निपात्यते, उदात्तः स्वरश्च। (धात्) दधाति, तथा (पुरुमेधाः चित्) बहुप्रज्ञः स्तोता। अत्र नित्यमसिच् प्रजामेधयोः४। अ० ५।४।१२२ इति बहुव्रीहेः समासान्तः असिच् प्रत्ययः। ब्रध्नश्चित्, पुरुमेधाश्चित् इत्युभयत्रापि चिदिति पूजायां बोध्यम्। (तकवे५) गमनाय कर्मयोगाय इत्यर्थः। तकतिः गतिकर्मा। निघं० २।१४। (नरम्) नेतृत्वगुणम् (धात्) धारयति। दधातेर्लडर्थे लुङि रूपम्। छान्दसत्वादडागमाभावः ॥९॥ अत्र ‘वातो न जूतिम्’ इत्युपमालङ्कारः। ‘पवा, पव’ इति छेकानुप्रासः ॥९॥
Essence
यथा परमेश्वररचितो महान् वायुस्तीव्रवेगं धारयति, तथैव परमेश्वरस्य स्तोता नेतृत्वगुणं धारयति ॥९॥
Subject
अथ सोमः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ९।९७।५२ ‘ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधाश्चित् तकवे नरं दात्’ इत्युत्तरार्धपाठः। साम० ११०४। २. पूञ् पवने (क्र्यादिः)। ‘अन्येभ्योऽपि दृश्यते’ पा० ३।२।१०१ इति विन् प्रत्ययः। आर्धधातुकलक्षणो गुणः। ‘सावेकाचः’ पा० ६।१।१६९ इति तृतीयाया उदात्तत्वम्—इति सा०। ३. मांश्चत्वे अश्वे आरूढः, मांश्चत्वे वा सरसि—इति वि०। मांश्चत्व इत्यश्वनाम। निघं० १।४। अभिमन्यमानान् शत्रून् चातयति नाशयति इति मांश्चत्वम्, तस्मिन् सरसि कलशे प्रधन्व प्रगच्छ—इति भ०। मन्यमानानां चातके सरसि उदके वसतीवर्याख्ये कलशे—इति सा०। ४. यद्यपि तस्मिन् सूत्रे उपरिष्टनात् सूत्रात् ‘नञ् दुःसुभ्यः’ इत्यनुवर्तितुमुचितम्, तथापि “नित्यग्रहणादन्यत्रापि भवतीति सूच्यते” इति काशिकावृत्तिः। उदाहृतं च तत्र, ‘श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी’ इति। ५. तकतिर्गतिकर्मसु पठितः, अस्मादौणादिक उन् प्रत्ययः—इति सा०।