Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 54

1875 Mantra
Devata- अग्निः Rishi- कण्वो घौरः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
नि꣡ त्वाम꣢꣯ग्ने꣣ म꣡नु꣢र्दधे꣣ ज्यो꣢ति꣣र्ज꣡ना꣢य꣣ श꣡श्व꣢ते । दी꣣दे꣢थ꣣ क꣡ण्व꣢ ऋ꣣त꣡जा꣢त उक्षि꣣तो꣡ यं न꣢꣯म꣣स्य꣡न्ति꣢ कृ꣣ष्ट꣡यः꣢ ॥५४॥

नि꣢ । त्वाम् । अ꣣ग्ने । म꣡नुः꣢꣯ । द꣣धे । ज्यो꣡तिः꣢꣯ । ज꣡ना꣢꣯य । श꣡श्व꣢꣯ते । दी꣣दे꣡थ꣢ । क꣡ण्वे꣢꣯ । ऋ꣣त꣡जा꣢तः । ऋ꣣त । जा꣣तः । उक्षितः꣢ । यम् । न꣣मस्य꣡न्ति꣢ । कृ꣣ष्ट꣡यः꣢ ॥५४॥

Mantra without Swara
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥

नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते । दीदेथ । कण्वे । ऋतजातः । ऋत । जातः । उक्षितः । यम् । नमस्यन्ति । कृष्टयः ॥५४॥

Samveda - Mantra Number : 54
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) प्रकाशस्वरूप प्रकाशक परमात्मन् ! (मनुः) मननशीलो जनः (त्वाम्२) परममहिमान्वितं त्वाम् (निदधे) निधिवत् स्वान्तःकरणे धारयति। त्वम् (शश्वते३) शाश्वताय सनातनाय (जनाय) जीवात्मने (ज्योतिः) दिव्यं प्रकाशं, प्रयच्छसीति शेषः। (ऋतजातः) ऋते सत्ये जातः प्रसिद्धः, (उक्षितः) हृदये सिक्तः, त्वम् (कण्वे४) मेधाविनि मयि। कण्व इति मेधाविनाम। निघं० ३।१५। (दीदेथ५) प्रकाशस्य। दीदयति ज्वलतिकर्मा।’ निघं० १।१६ (यम्) यं त्वाम् (कृष्टयः) उपासकाः मनुष्याः। कृष्टय इति मनुष्यनाम। निघं० २।३। (नमस्यन्ति) नमस्कुर्वन्ति ॥१०॥६
Essence
मननशीलानां परमो निधिर्जीवात्मनां च दिव्यज्योतिष्प्रदः परमेश्वरः सर्वैर्मेधाविजनैः स्वहृदि प्रदीपनीयः समुपासनीयश्च ॥१०॥ अत्र परमात्मकर्तृत्वमहत्त्ववर्णनपुरस्सरं तत्स्तुत्यर्थं प्रेरणाद्, हृदये तत्सामीप्यतद्वृद्धियाचनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति प्रथमे प्रपाठके प्रथमेऽर्धे पञ्चमी दशतिः ॥ इति प्रथमेऽध्याये पञ्चमः खण्डः ॥
Subject
अथ परमात्मानं स्तुवन् तं प्रार्थयते।
Footnote
१. १।३६।१९। २. अत्र स्वरव्यत्ययादाद्युदात्तत्वमिति ऋग्भाष्ये द०। ३. शश्वते स्वरूपेण अनादिने जनाय (जीवाय) जीवस्य रक्षणाय इति ऋग्भाष्ये द०। शश्वते विभवे, अहरहर्वा सर्वेषां मनुष्याणामर्थाय स्वराष्ट्रपरिपालनार्थम्—इति भ०। शश्वते बहुविधाय यजमानाय—इति सा०। (शश्वदिति बहुनामसु पठितम्। निघं० ३।१)। ४. कण्वे मयि—इति भ०। कण्वे एतन्नामके महर्षौ मयि—इति सा०। मेधाविनि जने—इति ऋग्भाष्ये द०। ५. दीदेथ इति लोडर्थे लिट्, दीप्यस्व—इति भ०। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजपुरुषाणां सहायकारी जगदीश्वरः कीदृशः इति विषये व्याख्यातः।