Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 539

1875 Mantra
Devata- पवमानः सोमः Rishi- कण्वो घौरः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣢धि꣣ य꣡द꣢स्मिन्वा꣣जि꣡नी꣢व꣣ शु꣢भः꣣ स्प꣡र्ध꣢न्ते꣣ धि꣢यः꣣ सू꣢रे꣣ न꣡ विशः꣢꣯ । अ꣣पो꣡ वृ꣢णा꣣नः꣡ प꣢वते꣣ क꣡वी꣢यान्व्र꣣जं꣡ न प꣢꣯शु꣣व꣡र्ध꣢नाय꣣ म꣡न्म꣢ ॥५३९॥

अ꣡धि꣢꣯ । यत् । अ꣣स्मिन् । वाजि꣡नि꣢ । इ꣣व । शु꣡भः꣢꣯ । स्प꣡र्ध꣢꣯न्ते । धि꣡यः꣢꣯ । सू꣡रे꣢꣯ । न । वि꣡शः꣢꣯ । अ꣣पः꣢ । वृ꣣णानः꣢ । प꣣वते । क꣡वी꣢꣯यान् । व्र꣣ज꣢म् । न । प꣣शुव꣡र्ध꣢नाय । प꣣शु । व꣡र्ध꣢꣯नाय । म꣡न्म꣢꣯ ॥५३९॥

Mantra without Swara
अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः । अपो वृणानः पवते कवीयान्व्रजं न पशुवर्धनाय मन्म ॥

अधि । यत् । अस्मिन् । वाजिनि । इव । शुभः । स्पर्धन्ते । धियः । सूरे । न । विशः । अपः । वृणानः । पवते । कवीयान् । व्रजम् । न । पशुवर्धनाय । पशु । वर्धनाय । मन्म ॥५३९॥

Samveda - Mantra Number : 539
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (अस्मिन्) सोमनाम्नि परमात्मनि (धियः) उपासकस्य ध्यानवृत्तयः (अधि स्पर्धन्ते) अहमहमिकया प्रवेष्टुमुत्सहन्ते इव। कथमित्याह—(वाजिनि इव) अश्वे यथा (शुभः) अलङ्काराः। शोभयन्तीति शुभः, अलङ्काराः। यद्वा (वाजिनि इव) बलवति पुरुषे यथा (शुभः) शोभयितारो गुणाः व्याप्तुमुत्सहन्ते इव, (सूरे न) सूर्ये च यथा (विशः) प्रजाभूताः रश्मयः अधि स्पर्धन्ते अहमहमिकया व्याप्तुमुत्सहन्ते इव, तदा (कवीयान्) कवितरः अतिशयेन प्राज्ञः सः सोमः परमेश्वरः। अतिशयेन कविः कवीयान्, कविशब्दादतिशायने ईयसुन् प्रत्ययः। (अपः) उपासकस्य प्राणान्। प्राणा वा आपः। तै० ब्रा० ३।२।५।२, आपो वै प्राणाः। श० ३।८।२।४। (वृणानः) वृण्वन् तस्य (मन्म) मनः। मन्म मनः इति निरुक्तम् ६।२२। (पवते) पुनाति। षूङ् पवने, भ्वादिः। तत्रोपमामाह—गोपालः (पशुवर्धनाय) गवादिपशूनां पोषणाय (व्रजं२ न) गोष्ठं यथा पुनाति स्वच्छं रक्षति तद्वत् ॥७॥ अत्र ‘वाजिनीव शुभः’, ‘सूरे न विशः’, ‘व्रजं न पशुवर्धनाय’ इति तिस्र उपमाः। स्पर्धायाश्च चेतनधर्मस्य अलङ्कार-शुभगुण-ध्यानवृत्तिभिरचेतनैर्योगे स्पर्धन्ते इव इत्यर्थद्योतनाद् व्यङ्ग्योत्प्रेक्षा ॥७॥
Essence
यदा साधकैः परमात्मनि ध्यानं केन्द्रितं क्रियते तदा परमात्मा तेषां हृदयानि पवित्रीकृत्य तान् सर्वात्मना वर्धयति ॥७॥
Subject
अथ सोमः परमात्मा कदा किं कुरुत इत्याह।
Footnote
१. ऋ० ९।९४।१ ‘सूरे’, ‘कवीयान्’ इत्यत्र क्रमेण ‘सूर्ये’, ‘कवीयन्’ इति पाठः। २. व्रजन् न इति पदपाठः। तत्पक्षे तु ‘अपो वृणानः प्राणान् वृण्वन् कवीयान् मेधावितरः सोमः परमात्मा मन्म मननशीलं जीवात्मानं पवते गच्छति (पवते गतिकर्मा। निघं० २।१४)।’ तत्रोपमामाह—पशूनां वर्धनाय व्रजन् न गच्छन्निव गोपालकः। स यथा पशुवर्धनाय गोष्ठं गच्छति तद्वदित्यर्थः।