Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 538

1875 Mantra
Devata- पवमानः सोमः Rishi- नोधा गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः । ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥५३८॥

सा꣣कमु꣡क्षः꣢ । सा꣣कम् । उ꣡क्षः꣢꣯ । म꣣र्जयन्त । स्व꣡सा꣢꣯रः । द꣡श꣢꣯ । धी꣡र꣢꣯स्य । धी꣣त꣡यः꣢ । ध꣡नु꣢꣯त्रीः । ह꣡रिः꣢꣯ । प꣡रि꣢꣯ । अ꣣द्रवत् । जाः꣢ । सू꣡र्य꣢꣯स्य । सु । ऊ꣣र्यस्य । द्रो꣡णं꣢꣯ । न꣣नक्षे । अ꣡त्यः꣢꣯ । न । वा꣣जी꣢ ॥५३८॥

Mantra without Swara
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥

साकमुक्षः । साकम् । उक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । सु । ऊर्यस्य । द्रोणं । ननक्षे । अत्यः । न । वाजी ॥५३८॥

Samveda - Mantra Number : 538
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिपरः। (धीरस्य) धीमतो यागकर्तुः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति निश्च्योतयन्ति सोमरसं यास्ताः (स्वसारः) भगिन्यः, भगिनीवत् सह मिलिताः, (धनुत्रीः२) धनुत्र्यः प्रेरयित्र्यः। धिन्वन्ति प्रीणयन्ति यास्ताः। धिवि प्रीणने, जसि पूर्वसवर्णदीर्घः। (दश) दशसंख्यकाः (धीतयः) अङ्गुलयः। स्वसारः, धीतयः इत्युभयमपि अङ्गुलिनामसु पठितम्। निघं० २।५। यदा सोमम् (मर्जयन्त) शोधयन्ति। मृजू शौचालङ्कारयो चुरादिः। लडर्थे लङ्। अमार्जयन्त इति प्राप्ते अडागमाभावश्छान्दसः, वृद्धिस्थाने गुणश्च। तदा (सूर्यस्य) आदित्यस्य (जाः३) अपत्यम्। जाः इत्यपत्यनाम। निघं० २।२। (हरिः) हतिवर्णः सोमरसः। हरिः सोमो हरितवर्णः इति निरुक्तम् ४।१९। (पर्यद्रवत्) परितो विस्तीर्यते। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा। अत्यः, वाजी इत्युभयमपि अश्वनामसु पठितम्। निघं० १।१४। अत्र वाजी इति अत्यः इत्यस्य विशेषणत्वेन प्रयुक्तः सन् योगार्थं प्रयच्छति। यः अतति सततं व्याप्नोति अध्वानं सोऽत्यः। अत सातत्यगमने। (द्रोणम्) द्रुमयं रथम्। द्रोणं द्रुममयं भवति इति निरुक्तम् ५।२६। (ननक्षे) व्याप्नोति, तत्र युज्यते, तथैव सोमरसः (द्रोणम्) द्रोणकलशम् (ननक्षे) व्याप्नोति। नक्षतिर्व्याप्तिकर्मा। निघं० २।१८ ॥ अथ द्वितीयः—परमात्मपरः। (धीरस्य) ध्यानस्थस्य योगिनः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति ज्ञानैः कर्मभिश्च यास्ताः, (स्वसारः) भगिनीवत् परस्परं सहकारिण्यः, (धनुत्रीः) धनुत्र्यः प्रेरयित्र्यः (दश) दशसंख्यकाः (धीतयः) यम-नियम-भावनाः, यदा (मर्जयन्त) जीवात्मानं शोधयन्ति, तदा (सूर्यस्य) परमात्मनः (जाः) पुत्रः (हरिः) उन्नतिपथे यः ह्रियते स जीवात्मा (पर्यद्रवत्) परिद्रवति, समन्ततः क्रियाशीलो भवति। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा (द्रोणम्) द्रुमयं रथम् (ननक्षे) प्राप्नोति, तत्र युज्यते इत्यर्थः, तथैव स जीवात्मा (द्रोणम्) क्रियाशीलं परमात्मानम्। गत्यर्थाद् द्रवतेः ‘कृवृजृसि’ उ० ३।१० इति नः प्रत्ययः। (ननक्षे) प्राप्नोति ॥६॥ अत्र श्लेषालङ्कारः। ‘द्रोणं ननक्षे अत्यो न वाजी’ इत्यत्र श्लिष्टोपमा। सकार-धकार-नकार-रेफाणामसकृदावर्तनाद् वृत्त्यनुप्रासः ॥६॥
Essence
दशाङ्गुलिभिः परिशोधितः सोमरसो यथा द्रोणकलशं व्याप्नोति तथैव यमनियमभावनाभिः परिशोधितो जीवात्मा परमात्मानं प्राप्नोति ॥६॥
Subject
अथ कदा जीवात्मा परमात्मानं प्राप्नोतीत्याह।
Footnote
१. ऋ० ९।९३।१, साम० १४१८। २. धनुत्रीः धनुः त्रायन्त्यः—इति वि०। धिनोतेर्धनुत्र्यः प्रीणयित्र्यः धन्वतेर्वा गतिकर्मणः, प्राप्नुवन्त्यः प्राप्तव्यानि—इति भ०। ३. जाः जनयिता सूर्यस्य। जन जनने इत्यस्माद् धातोर्विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ इति आकारः। जनिताग्नेर्जनिता सूर्यस्य (ऋ० ६।९६।५) इति च भवति—इति भ०।