Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 537

1875 Mantra
Devata- पवमानः सोमः Rishi- कर्णश्रुद्वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
त꣢क्ष꣣द्य꣢दी꣣ म꣡न꣢सो꣣ वे꣡न꣢तो꣣ वा꣡ग्ज्येष्ठ꣢꣯स्य꣣ ध꣡र्मं꣢ द्यु꣣क्षो꣡रनी꣢꣯के । आ꣡दी꣢माय꣣न्व꣢र꣣मा꣡ वा꣢वशा꣣ना꣢꣫ जुष्टं꣣ प꣡तिं꣢ क꣣ल꣢शे꣣ गा꣢व꣣ इ꣡न्दु꣢म् ॥५३७॥

त꣡क्ष꣢꣯त् । य꣡दि꣢꣯ । म꣡न꣢꣯सः । वे꣡न꣢꣯तः । वाक् । ज्ये꣡ष्ठ꣢꣯स्य । ध꣡र्म꣢꣯न् । द्यु꣣क्षोः꣢ । द्यु꣣ । क्षोः꣢ । अ꣡नी꣢꣯के । आत् । ई꣣म् । आयन् । व꣡र꣢꣯म् । आ । वा꣣वशानाः꣢ । जु꣡ष्ट꣢꣯म् । प꣡ति꣢꣯म् । क꣣ल꣡शे꣢ । गा꣡वः꣢꣯ । इ꣡न्दु꣢꣯म् ॥५३७॥

Mantra without Swara
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके । आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥

तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । धर्मन् । द्युक्षोः । द्यु । क्षोः । अनीके । आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥५३७॥

Samveda - Mantra Number : 537
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यदि) यदा। संहितायां ‘निपातस्य च। अ० ६।३।१३६’ इति दीर्घः। (वेनतः) कामयमानस्य, संकल्पवतः इत्यर्थः। वेनतिः कान्तिकर्मा। निघं० २।६। (मनसः) मननसाधनस्य मनोनामकस्य अन्तरिन्द्रियस्य (वाक्) संकल्पलक्षणा वाणी, स्तोतारम् (ज्येष्ठस्य) महत्तमस्य परमात्मनः (धर्मन्) धर्मणि गुणग्रामे इत्यर्थः। अत्र ‘सुपां सुलुक्० अ० ७।१।३९’ इति सप्तम्या लुक्। (द्युक्षोः) दीप्तिनिवासकस्य तस्य परमात्मनः। दिवं दीप्तिं क्षाययति निवासयतीति द्युक्षुः तस्य। क्षि निवासगत्योः। (अनीके) समीपे च (तक्षत्) करोति, स्थापयतीत्यर्थः। तक्षतिः करोतिकर्मा। निरु० ४।१९। तस्य लेटि रूपम्। (आत्) तदनन्तरम् एव (आ वावशानाः) समन्ततः अतिशयेन पुनः पुनः कामयमानाः। वष्टेः कान्तिकर्मणो यङ्लुगन्तस्य शानचि रूपम्। (गावः) स्तोतारः। गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६। (ईम्) एनम् (वरम्) वरणीयं श्रेष्ठं वा, (जुष्टम्) प्रियम्, (पतिम्) शरीरस्य पालकं स्वामिनं वा (इन्दुम्) दीप्तं चन्द्रतुल्यं वा जीवात्मानम्। इन्दुः इन्धेरुनत्तेर्वेति निरुक्तम् १०।४०। (कलशे) षोडशकले परमात्मरूपे द्रोणकलशे (आयन्) प्रापयन्ति। इण् गतौ धातोर्णिजर्थगर्भस्य लङि रूपम् ॥५॥
Essence
मनसः संकल्पे सहायके सत्येव जीवात्मा परमात्मानं प्राप्तुमर्हति ॥५॥
Subject
अथ कदा स्तोतारो जीवात्मानं परमात्मनि नयन्तीत्याह।
Footnote
१. ऋ० ९।९७।१२ ‘ज्येष्ठस्य वा धर्मणि क्षोरनीके’ इति पाठः।