Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 536

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ हि꣢न्वा꣣नो꣡ ज꣢नि꣣ता꣡ रोद꣢꣯स्यो꣣ र꣢थो꣣ न꣡ वाज꣢꣯ꣳ सनि꣣ष꣡न्न꣢यासीत् । इ꣢न्द्रं꣣ ग꣢च्छ꣣न्ना꣡यु꣢धा स꣣ꣳशि꣡शा꣢नो꣣ वि꣢श्वा꣣ व꣢सु꣣ ह꣡स्त꣢योरा꣣द꣡धा꣢नः ॥५३६॥

प्र꣢ । हि꣣न्वानः꣢ । ज꣣निता꣢ । रो꣡द꣢꣯स्योः । र꣡थः꣢꣯ । न । वा꣡ज꣢꣯म् । स꣣निष꣢न् । अ꣣यासीत् । इ꣡न्द्र꣢꣯म् । ग꣡च्छ꣢꣯न् । आ꣡यु꣢꣯धा । सँ꣣शि꣡शा꣢नः । स꣣म् । शि꣡शा꣢꣯नः । वि꣡श्वा꣢꣯ । व꣡सु꣢꣯ । ह꣡स्त꣢꣯योः । आ꣣द꣡धा꣢नः । आ꣣ । द꣡धा꣢꣯नः ॥५३६॥

Mantra without Swara
प्र हिन्वानो जनिता रोदस्यो रथो न वाजꣳ सनिषन्नयासीत् । इन्द्रं गच्छन्नायुधा सꣳशिशानो विश्वा वसु हस्तयोरादधानः ॥

प्र । हिन्वानः । जनिता । रोदस्योः । रथः । न । वाजम् । सनिषन् । अयासीत् । इन्द्रम् । गच्छन् । आयुधा । सँशिशानः । सम् । शिशानः । विश्वा । वसु । हस्तयोः । आदधानः । आ । दधानः ॥५३६॥

Samveda - Mantra Number : 536
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(रोदस्योः२) द्यावापृथिव्योः (जनिता) जनयिता। जनयिता इति प्राप्ते ‘जनिता मन्त्रे’ अ० ६।४।५३ इति निपातनम्। (हिन्वानः) द्यावापृथिव्यौ गमयंश्च सोमः सर्वेषां प्रेरकः परमेश्वरः। हि गतौ वृद्धौ च, शानच्। (वाजम्) आत्मबलम् (सनिषन्) दातुमिच्छन्। षणु दाने सनि शतरि सिषनिषन् इति प्राप्ते द्वित्वाभावश्छान्दसः। (प्र अयासीत्) प्र याति, प्रवर्तते इत्यर्थः। या प्रापणे धातोः सामान्यार्थे लुङ्। (रथः न) रथो यथा (वाजम्) अन्नम् (सनिषन्) प्रदास्यन् (प्र अयासीत्) प्र याति। किञ्च (इन्द्रम्) जीवात्मानम् (गच्छन्) व्रजन्, तस्य (आयुधा) आयुधानि शत्रुपराजयसाधनानि शमदमादीनि (सं शिशानः) सम्यक् तीक्ष्णीकुर्वन्, (विश्वा वसु) विश्वानि वसूनि आध्यात्मिकानि ऐश्वर्याणि (हस्तयोः) तस्य पाण्योः (आदधानः) धारयन्, भवतीति शेषः ॥४॥ अत्र ‘रथो न वाजम्’ इत्यादौ श्लिष्टोपमालङ्कारः ॥४॥
Essence
रथो यथा प्रचुरान्नादिप्राप्तिसाधनं भवति तथा परमेश्वरो जीवात्मने विपुलबलवेगादिप्राप्तिसाधनं जायते ॥४॥
Subject
अथ सोमं परमात्मानं वर्णयति।
Footnote
१. ऋ० ९।९०।१ ‘सनिषन्’ इत्यत्र ‘सनिष्यन्’ इति पाठः। २. यथा प्रस्तुताया दशतेर्द्वितीये मन्त्रे ‘जनयन्त्सूर्यम्’ इति वाक्यांशो मन्त्रस्य परमात्मपरत्वं सङ्केतयति तथैवात्र ‘जनिता रोदस्योः’ इति वाक्यांशोऽपि सूचयति यदेते सोमदेवताका मन्त्राः सोमौषध्यामेव न पर्यवस्यन्तीति।