Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 535

1875 Mantra
Devata- पवमानः सोमः Rishi- इन्द्रप्रमतिर्वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ गा꣢यता꣣꣬भ्य꣢꣯र्चाम दे꣣वा꣡न्त्सोम꣢꣯ꣳ हिनोत मह꣣ते꣡ धना꣢꣯य । स्वा꣣दुः꣡ प꣢वता꣣मति꣣ वा꣢र꣣म꣢व्य꣣मा꣡ सी꣢दतु क꣣ल꣡शं꣢ दे꣣व꣡ इन्दुः꣢꣯ ॥५३५॥

प्र꣢ । गा꣣यता । अभि꣢ । अ꣣र्चाम । देवा꣢न् । सो꣡म꣢꣯म् । हि꣣नोत । महते꣢ । ध꣡ना꣢꣯य । स्वा꣣दुः꣢ । प꣣वताम् । अ꣡ति꣢꣯ । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । आ । सी꣣दतु । कल꣡श꣢म् । दे꣣वः꣢ । इ꣡न्दुः꣢꣯ ॥५३५॥

Mantra without Swara
प्र गायताभ्यर्चाम देवान्त्सोमꣳ हिनोत महते धनाय । स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः ॥

प्र । गायता । अभि । अर्चाम । देवान् । सोमम् । हिनोत । महते । धनाय । स्वादुः । पवताम् । अति । वारम् । अव्यम् । आ । सीदतु । कलशम् । देवः । इन्दुः ॥५३५॥

Samveda - Mantra Number : 535
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिपरः। हे सखायः ! यूयम् (प्र गायत) वेदमन्त्रान् प्रकर्षेण गायत। वयम् (देवान्) यज्ञे समागतान् विदुषः (अभ्यर्चाम) सत्कुर्याम। यूयम् (महते) विपुलाय (धनाय) ऐश्वर्याय, यज्ञेन प्राप्तव्याय फलायेत्यर्थः (सोमम्) सोमरसम् (हिनोत) प्रेरयत। (स्वादुः) मधुरः सोमः (अव्यम्) अविजनितम् (वारम्) बालमयं दशापवित्रम् (अति पवताम्) अतिक्रम्य क्षरतु। (देवः) द्योतमानः सः (इन्दुः) सोमरसः (कलशम्) द्रोणकलशम् (आ सीदतु) आ तिष्ठतु ॥ अथ द्वितीयः—परमात्मपरः। हे उपासकाः ! यूयम् (प्र गायत) रसागारं सोमनामकं परमेश्वरमुद्दिश्य गीतानि प्रकर्षेण गायत। यूयं वयं च संभूय हृदि समागतान् (देवान्) सत्याहिंसादीन् दिव्यगुणान् (अभ्यर्चाम) सत्कुर्याम। यूयम् (महते) विपुलाय (धनाय) दिव्यैश्वर्यस्य प्राप्तये (सोमम्) रसागारं परमेश्वरम् (हिनोत) स्वान्तःकरणे प्रेरयत। (स्वादुः) मधुररसः स परमेश्वरः (अव्यं वारम्) पार्थिवम् अन्नमयकोशम् (अति) अतिक्रम्य (पवताम्) प्राणमयमनोमयविज्ञानमयानन्दमयकोशेषु प्रवहतु। (देवः) दानादिगुणविशिष्टः सः (इन्दुः) आनन्दरसेनार्द्रीकर्ता परमेश्वरः। इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१। (कलशम्) षोडशकलम् आत्मानम्। कलशः कस्मात् ? कला अस्मिन् शेरते मात्राः इति निरुक्तम्। ११।१२। (आ सीदतु) प्राप्नोतु ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
यथा यजमानैः सोमलतां ग्रावसु सम्पिष्य रसं दशापवित्रैः क्षारयित्वा मधुरः सोमरसो द्रोणकलशे निवेश्यते तथैव परमात्माराधकैर्मधुरो ब्रह्मानन्दरस आत्मरूपे कलशे प्रवेशनीयः ॥३॥
Subject
अथ सोमं प्रति जनान् प्रेरयति।
Footnote
१. ऋ० ९।९७।४ ‘स्वादुः पवाते अति वारमव्यया सीदाति कलशं देवयुर्नः’ इति पाठः।