Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 534

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृग्र꣣न्वा꣢रं꣣ य꣢त्पू꣣तो꣢ अ꣣त्ये꣡ष्यव्य꣢꣯म् । प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गो꣡नां꣢ ज꣣न꣢य꣣न्त्सू꣡र्य꣢मपिन्वो अ꣣र्कैः꣢ ॥५३४॥

प्र꣢ । ते꣣ । धा꣡राः꣢꣯ । म꣡धु꣢꣯मतीः । अ꣣सृग्रन् । वा꣡र꣢꣯म् । यत् । पू꣣तः꣢ । अ꣣त्ये꣡षि꣢ । अ꣣ति । ए꣡षि꣢꣯ । अ꣡व्य꣢꣯म् । प꣡व꣢꣯मान । प꣡व꣢꣯से । धा꣡म꣢꣯ । गो꣡ना꣢꣯म् । ज꣣न꣡य꣢न् । सू꣡र्य꣢꣯म् । अ꣣पिन्वः । अर्कैः꣢ ॥५३४॥

Mantra without Swara
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥

प्र । ते । धाराः । मधुमतीः । असृग्रन् । वारम् । यत् । पूतः । अत्येषि । अति । एषि । अव्यम् । पवमान । पवसे । धाम । गोनाम् । जनयन् । सूर्यम् । अपिन्वः । अर्कैः ॥५३४॥

Samveda - Mantra Number : 534
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ! रसमय परमात्मन् ! (ते) तव (मधुमतीः) मधुराः (धाराः) प्रवाहसन्ततयः (प्र असृग्रन्) प्रसृष्टाः भवन्ति। अत्र सृज विसर्गे धातोर्लडर्थे लङि ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः वर्णव्यत्ययेन जकारस्थाने गकारश्च। (यत्) यदा (पूतः) पवित्रः त्वम् (अव्यम्) पार्थिवम्, अन्नमयमित्यर्थः। इयं पृथिवी वा अविः। श० ६।१।२।३३। (वारम्) कोशम्। वारयति आवृणोतीति वारः कोशः, वृञ् आवरणे चुरादिः। (अत्येषि) अतिक्रामसि, अन्नमयकोशमतिक्रम्य क्रमेण प्राणमयं, मनोमयं, विज्ञानमयम् चापि कोशमतिक्राम्यन् आनन्दमयं कोशं यदाधितिष्ठसि, तदा ते मधुरा आनन्दधाराः शरीरे, प्राणे, मनसि, आत्मनि च प्रवहन्तीत्यर्थः। हे (पवमान) पावित्र्यसम्पादक जगदीश्वर ! त्वम् (गोनाम्) गवां पृथिव्यादिलोकानामिव इन्द्रियप्राणमनोबुद्ध्यात्मनाम् (धाम) स्थानम् (पवसे) पुनासि। पूङ् पवने, भ्वादिः। किञ्च (सूर्यम्२) गगनवर्तिनम् आदित्यमिव अध्यात्मप्रकाशस्य सूर्यम् (जनयन्) उत्पादयन्, तस्य (अर्कैः) किरणैः। सूर्यवाचकाः शब्दाः बहुवचने प्रयुक्ताः किरणार्थं गमयन्ति। (अपिन्वः) उपासकस्य आत्मानं सिञ्चसि। पिवि सेचने, लडर्थे लङ्। अत्र किरणैः सेचनासंभवात् पूरणार्थो लक्ष्यते, शान्तिप्रदत्वं च व्यङ्ग्यम्, उपासकस्यात्मानमध्यात्मसूर्यस्य किरणैर्निरतिशयं प्रपूर्य शान्तिं प्रयच्छसीत्यर्थः ॥२॥
Essence
यथा यदा सोमरसः अविबालमयं दशापवित्रम् अतिक्रामति तदा तस्य मधुरा धारा द्रोणकलशं प्रति प्रवहन्ति, तथैव यदा परमेश्वरोऽन्नमयादिकोशानतिक्रम्यानन्दमयकोशमधितिष्ठति तदा तस्य मधुरा आनन्दधाराः शरीरस्य प्राणमनोबुद्ध्यात्मधामान्याप्लावयन्ति ॥२॥
Subject
अथ पवमानस्य सोमस्य कृत्यं वर्णयति।
Footnote
१. ऋ० ९।९७।३१ ‘वारान् यत्पूतो अत्येष्यव्यान्’ इति ‘जज्ञानः सूर्यमपिन्वो अर्कैः’ इति च पाठः। २. यद्यप्यस्य मन्त्रस्य सोमौषधिपरोऽप्यर्थः संभवति, तथापि मन्त्रेषु यत्र तत्र कानिचिदेवंविधानि पदानि वाक्यांशा वाक्यानि वा समागच्छन्ति यानि सूचयन्ति यन्मन्त्रः स्थूलार्थ एव न पर्यवस्यति। यथाप्रस्तुते मन्त्रे ‘जनयन् सूर्यम्’ इति वाक्यांशः परमात्मपरमर्थं सङ्केतयति, यत ओषध्यात्मके सोमे सूर्यजननसामर्थ्यं नास्ति। सायणस्तु ‘जनयन् जायमानः’ इत्यसंभाविनमर्थमाविष्करोति, परं तथा कृतेऽप्यसंगतिस्तदवस्थैव, यतः ‘जनयन् जायमानस्त्वम् अर्कैः स्वतेजोभिः सूर्यम् आदित्यम् अपिन्वः पूरयसि’ इति तदीयोऽप्यर्थः सोमौषधिपक्षे न संगच्छते।