Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 533

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ से꣢ना꣣नीः꣢꣫ शूरो꣣ अ꣢ग्रे꣣ र꣡था꣢नां ग꣣व्य꣡न्ने꣢ति꣣ ह꣡र्ष꣢ते अस्य꣣ से꣡ना꣢ । भ꣣द्रा꣢न्कृ꣣ण्व꣡न्नि꣢न्द्रह꣣वा꣡न्त्सखि꣢꣯भ्य꣣ आ꣢꣯ सोमो꣣ व꣡स्त्रा꣢ रभ꣣सा꣡नि꣢ दत्ते ॥५३३॥

प्र꣢ । से꣣नानीः꣢ । से꣣ना । नीः꣢ । शू꣡रः꣢꣯ । अ꣢ग्रे꣣ । र꣡था꣢꣯नाम् । ग꣣व्य꣢न् । ए꣣ति । ह꣡र्ष꣢꣯ते । अ꣣स्य । से꣡ना꣢꣯ । भ꣣द्रा꣢न् । कृ꣣ण्व꣢न् । इ꣣न्द्रहवा꣢न् । इ꣣न्द्र । हवा꣢न् । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । आ꣢ । सो꣡मः꣢꣯ । व꣡स्त्रा꣢꣯ । र꣣भसा꣡नि꣢ । द꣣त्ते ॥५३३॥

Mantra without Swara
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥

प्र । सेनानीः । सेना । नीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना । भद्रान् । कृण्वन् । इन्द्रहवान् । इन्द्र । हवान् । सखिभ्यः । स । खिभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥५३३॥

Samveda - Mantra Number : 533
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सेनानीः) देवजनानां सेनापतिः (शूरः) वीरः सोमः परमेश्वरः (गव्यन्) गाः दिव्यान् प्रकाशकिरणान् प्रापयितुमिच्छन्। अत्र छन्दसि परेच्छायां क्यच्। (रथानाम्) शरीररथारोहिणां जीवात्मरूपाणां योद्धॄणाम्। अत्र लक्षणया रथैः रथारोहिणो गृह्यन्ते। (अग्रे२) अग्रपदे (प्र एति) प्रकृष्टतया याति, अतः (अस्य) सोमस्य परमेश्वरस्य (सेना) देवसेना (हर्षते) मोदते, उत्सहते। (सखिभ्यः) सुहृद्भ्यः स्वोपासकेभ्यः (इन्द्रहवान्) रक्षां प्राप्तुम् इन्द्रं वीरं सेनापतिं राजानं वा उद्दिश्य ये हवाः यानि आह्वानानि क्रियन्ते ते इन्द्रहवा इत्युच्यन्ते तान् (भद्रान्) सुखजनकान् (कृण्वन्) कुर्वन् तेषामाह्वानानि सफलयन्नित्यर्थः (सोमः) वीररसपूर्णः परमेश्वरः (रभसानि) बलवेगादीनि (वस्त्रा) वस्त्राणि इव इति लुप्तोपमम्, (आदत्ते) गृह्णाति, यथा कश्चिच्छरीरे वस्त्राणि धारयति तथा वीरः परमेश्वरो नायकत्वं निर्वोढुं स्वात्मनि बलवेगादीनि धारयतीत्यर्थः ॥१॥ अत्र वीरो रसः। सोमे परमात्मनि सेनानीत्वारोपाद् रूपकालङ्कारः ॥१॥
Essence
यथा कश्चिच्छूरः सेनापतिर्वीरोचितानि वस्त्राणि धारयन् रथारोहिणां सुभटानामग्रे गच्छंस्तान् प्रोत्साहयति स्वकीयां सेनां च हर्षयति तथैव परमेश्वरोऽपि वीरोचितानि बलवेगादीनि धारयन् मानसे देवासुरसंग्रामे सेनानीरिव भूत्वा दुर्विचाररूपान् शत्रून् हन्तुं दिव्यविचारांश्च वर्धयितुं देवजनान् समुत्साहयति ॥१॥
Subject
तत्रादौ सोमं परमात्मानं सेनानीत्वेन वर्णयति।
Footnote
१. ऋ० ९।९६।१। २. संहितायां केषुचित् पुस्तकेषु अ꣢ग्ने꣣ इति पाठः, तत्र स्वरो न संगच्छते।