Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 532

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢स्व सोम꣣ म꣡धु꣢माꣳ ऋ꣣ता꣢वा꣣पो꣡ वसा꣢꣯नो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ । अ꣢व꣣ द्रो꣡णा꣢नि घृ꣣त꣡व꣢न्ति रोह म꣣दि꣡न्त꣢मो मत्स꣣र꣡ इ꣢न्द्र꣣पा꣡नः꣢ ॥५३२॥

प꣡व꣢꣯स्व । सो꣣म । म꣡धु꣢꣯मान् । ऋ꣣ता꣡वा꣢ । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । अ꣡व꣢꣯ । द्रो꣡णा꣢꣯नि । घृ꣣त꣡व꣢न्ति । रो꣣ह । मदि꣡न्त꣢मः । म꣣त्सरः꣢ । इ꣣न्द्रपा꣡नः꣢ । इ꣣न्द्र । पा꣡नः꣢꣯ ॥५३२॥

Mantra without Swara
पवस्व सोम मधुमाꣳ ऋतावापो वसानो अधि सानो अव्ये । अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ॥

पवस्व । सोम । मधुमान् । ऋतावा । अपः । वसानः । अधि । सानौ । अव्ये । अव । द्रोणानि । घृतवन्ति । रोह । मदिन्तमः । मत्सरः । इन्द्रपानः । इन्द्र । पानः ॥५३२॥

Samveda - Mantra Number : 532
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार परमात्मन् ! (मधुमान्) मधुमयानन्दरसोपेतः, (ऋतावा) सत्यवान् त्वम्। अत्र ऋतशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१०९ इति वनिप्। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति ऋताऽकारस्य दीर्घः। (पवस्व) अस्मान् प्रति परिस्रव, अस्मान् पुनीहि वा। (अपः) अस्माकं कर्माणि (वसानः) स्वात्मना आच्छादयन् (अव्ये) अव्यये अविनाशिनि (सानौ२) उन्नते आत्मनि (अधि) अधिरोह। (मदिन्तमः) अतिशयेन आनन्दमयः, (मत्सरः) आनन्दप्रदः, (इन्द्रपानः) इन्द्रेण जीवात्मना पातव्यः त्वम् (घृतवन्ति३) तेजोमयानि (द्रोणानि) इन्द्रियमनःप्राणरूपान् द्रोणकलशान् (अवरोह) अवाप्नुहि ॥१०॥
Essence
श्लेषेण सोमौषधिपक्षेऽपि योजनीयम्। परमात्मा सोमौषधिवद् मधुररसागारो विद्यते। यथा सोमौषधिरसो जलैः संसृज्य अविबालमये पवित्रे परिस्रुतः सन् द्रोणकलशानवरोहति तथा परमात्मसोमोऽस्माकं कर्मभिः संसृज्यात्मरूपे पवित्रे परिस्रुत इन्द्रियमनःप्राणरूपान् द्रोणकलशानवरोहति ॥१०॥ अत्रापि सोमस्य परमात्मनः ततोऽभिषुतस्यानन्दरसस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम् ॥ इति षष्ठे प्रपाठके प्रथमार्धे चतुर्थी दशतिः ॥ इति पञ्चमेऽध्याये षष्ठः खण्डः ॥
Subject
अथ परमात्मरूपं सोममाह।
Footnote
१. ऋ० ९।९६।१३ ‘घृतवन्ति रोह’ इत्यत्र ‘घृतवान्ति सीद’ इति पाठः। २. ऋग्वेदिनः सामवेदिनश्चोभयेऽपि ‘सानो अव्ये’ इत्यस्य ‘सानौ अव्ये’ इति पदपाठमामनन्ति। द्रष्टव्या, ५२९ मन्त्रभाष्ये टिप्पणी। ३. घृतवन्ति उदकवन्ति—इति वि०। दीप्तिमन्ति—इति भ०।