Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 531

1875 Mantra
Devata- पवमानः सोमः Rishi- उशना काव्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ए꣣ष꣢꣫ स्य ते꣣ म꣡धु꣢माꣳ इन्द्र꣣ सो꣢मो꣣ वृ꣢षा꣣ वृ꣢ष्णः꣣ प꣡रि꣢ प꣣वि꣡त्रे꣢ अक्षाः । स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ शश्वत्त꣣मं꣢ ब꣣र्हि꣢꣫रा वा꣣꣬ज्य꣢꣯स्थात् ॥५३१॥

ए꣣षः꣢ । स्यः । ते꣣ । म꣡धु꣢꣯मान् । इ꣣न्द्र । सो꣡मः꣢꣯ । वृ꣡षा꣢꣯ । वृ꣡ष्णः꣢꣯ । प꣡रि꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣क्षारि꣡ति꣢ । स꣣हस्रदाः꣢ । स꣣हस्र । दाः꣢ । श꣣तदाः꣢ । श꣣त । दाः꣢ । भू꣣रिदा꣡वा꣢ । भू꣣रि । दा꣡वा꣢꣯ । श꣣श्वत्तम꣢म् । ब꣣र्हिः꣢ । आ । वा꣣जी꣢ । अ꣣स्थात् ॥५३१॥

Mantra without Swara
एष स्य ते मधुमाꣳ इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥

एषः । स्यः । ते । मधुमान् । इन्द्र । सोमः । वृषा । वृष्णः । परि । पवित्रे । अक्षारिति । सहस्रदाः । सहस्र । दाः । शतदाः । शत । दाः । भूरिदावा । भूरि । दावा । शश्वत्तमम् । बर्हिः । आ । वाजी । अस्थात् ॥५३१॥

Samveda - Mantra Number : 531
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (वृष्णः) वर्षकस्य (ते) तव (एषः) अयम् (स्यः) सः प्रख्यातः (वृषा) शक्तिवर्षकः, (मधुमान्) माधुर्योपेतः (सोमः) आनन्दरसः (पवित्रे) मदीये पावने हृदयरूपे द्रोणकलशे (परि अक्षाः) परिक्षरति। ‘अक्षाः’ इति क्षरतेर्लुङि तिपि रूपम्। (सहस्रदाः) सहस्रगुणानां प्रदाता, (शतदाः) शतबलानां प्रदाता। अत्र क्रमेण सहस्र-शतपूर्वाद् ददातेः कर्तरि क्विपि रूपम्। (भूरिदावा) बहुलाभप्रदः। भूर्युपपदाद् ददातेः ‘आतो मनिन् क्वनिब्वनिपश्च। अ० ३।२।७४’ इति वनिप्। (वाजी) वेगवान् सः आनन्दरसरूपः सोमः (शश्वत्तमम्) सनातनम् (बर्हिः) आत्मरूपं दर्भपात्रम् (आ अस्थात्) आतिष्ठति ॥९॥ अत्र वृष्णस्तव रसोऽपि वृषेति योग्यसमागमद्योतनाद् ‘वृषा वृष्णः’ इत्यत्र समालङ्कारो ध्वन्यते। ‘वृषा, वृष्’ इत्यत्र छेकानुप्रासः। ‘दा’ इत्यस्य त्रिश आवृत्तौ वृत्त्यनुप्रासः ॥९॥
Essence
यथा मधुररसभरितः सोमः पवित्रे द्रोणकलशे क्षरति तथा परमेश्वरस्य माधुर्योपेतं आनन्दरसो हृदयद्रोणे क्षरति। यथा सोमरसः बहुशक्तिप्रदो भवति तथैव आनन्दरसोऽपि ॥९॥
Subject
अथ परमात्मन आनन्दरसं वर्णयति।
Footnote
१. ऋ० ९।८७।४, ‘वृष्णः’, ‘सहस्रदाः, शतदा’ इत्यत्र क्रमेण ‘वृष्णे’ ‘सहस्रसाः, शतसा’ इति पाठः।