Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 530

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रस्कण्वः काण्वः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
क꣡नि꣢क्रन्ति꣣ ह꣢रि꣣रा꣢ सृ꣣ज्य꣡मा꣢नः꣣ सी꣢द꣣न्व꣡न꣢स्य ज꣣ठ꣡रे꣢ पुना꣣नः꣢ । नृ꣡भि꣢र्य꣣तः꣡ कृ꣢णुते नि꣣र्णि꣢जं꣣ गा꣡मतो꣢꣯ म꣣तिं꣡ ज꣢नयत स्व꣣धा꣡भिः꣢ ॥५३०॥

क꣡नि꣢꣯क्रन्ति । ह꣡रिः꣢꣯ । आ । सृ꣣ज्य꣡मा꣢नः । सी꣡द꣢꣯न् । व꣡न꣢꣯स्य । ज꣣ठ꣡रे꣢ । पु꣣नानः꣢ । नृ꣡भिः꣢ । य꣣तः꣢ । कृ꣣णुते । निर्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । गाम् । अ꣡तः꣢꣯ । म꣣ति꣢म् । ज꣣नयत । स्वधा꣡भिः꣢ । स्व꣣ । धा꣡भिः꣢꣯ ॥५३०॥

Mantra without Swara
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥

कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः । नृभिः । यतः । कृणुते । निर्णिजम् । निः । निजम् । गाम् । अतः । मतिम् । जनयत । स्वधाभिः । स्व । धाभिः ॥५३०॥

Samveda - Mantra Number : 530
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिपरः। (हरिः) हरितवर्णः सोमः। हरिः सोमो हरितवर्णः इति निरुक्तम्। ४।१९। (आसृज्यमानः) द्रोणकलशे विसृज्यमानः (कनिक्रन्ति२) शब्दायते। (वनस्य) अरण्यस्य (जठरे) मध्ये (सीदन्) तिष्ठन् सः (पुनानः) वायुमण्डलं पवित्रं कुर्वन् भवति। (नृभिः) यज्ञस्य नेतृभिः ऋत्विग्भिः (यतः) नियन्त्रितः स सोमः। यम उपरमे, निष्ठायां रूपम्। (गाम्) गव्यं पयः। अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति। ‘गोभिः श्रीणीत मत्सरम्’ इति पयसः, इति निरुक्तम् २।५। (निर्णिजम्) स्वसंयोगेन पुष्टम् णिजिर् शौचपोषणयोः। (कृणुते) करोति। (अतः) अस्मात् कारणात् हे यजमानाः ! यूयम् (स्वधाभिः) हविर्लक्षणैः अन्नैः सह, सोमयागं प्रति (मतिम्) बुद्धिम् (जनयत) कुरुत, सोमयज्ञनिष्पादने रुचिं कुरुतेत्यर्थः ॥ अथ द्वितीयः—परमात्मपरः। (हरिः) पापहरणशीलः परमेश्वरः (आ सृज्यमानः) मनुष्यस्य जीवात्मना सह संसृज्यमानः सन् (कनिक्रन्ति) शब्दायते, कर्तव्यकर्माण्युपदिशतीति भावः। (वनस्य) कमनीयस्य स्वसुहृदो जनस्य। वनतिः कान्तिकर्मा। (जठरे) हृदभ्यन्तरे (सीदन्) उपविशन् सः (पुनानः) पवित्रतां कुर्वन् भवति। (नृभिः) उपासकैर्जनैः (यतः) हृदये निगृहीतः सन् (गाम्) इन्द्रियसमूहम् (निर्णिजम्) शुद्धं (कृणुते) करोति। (अतः) अस्मात् कारणात्, हे जनाः ! यूयम् (स्वधाभिः) स्वात्मसमर्पणैः सह, तं परमेश्वरं प्रति (मतिम्) स्तुतिम् (जनयत) प्रकटीकुरुत ॥८॥ अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च व्यज्यते ॥८॥
Essence
यथा द्रोणकलशं प्रविशन् सोमः शब्दायते तथैव मनुष्यस्यात्मानमुपगतः परमेश्वरः कर्तव्यमुपदिशति। यथा गव्येन पयसा संसक्तः सोमस्तत् पयः पुष्टियुक्तं करोति तथा हृदये निगृहीतः परमेश्वरः इन्द्रियसमूहं पुष्टं निर्मलं च विधत्ते। अतः परमेश्वरं प्रति सर्वैः स्तुतिगीतानि गातव्यानि ॥८॥
Subject
अथ हरिनाम्ना सोमौषधिं परमात्मानं च वर्णयति।
Footnote
१. ऋ० ९।९५।१ ‘निर्णिजं गा अतो मतीर्जनयत’ इति पाठः। २. कृन्दतेर्यङ्लुकि तिपि इडभावे ‘दाधर्तिदर्धर्ती’त्यादिना निपातनादभ्यासस्य निगागमः। अभ्यस्तस्वरः—इति सा०।