Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 53

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
का꣡य꣢मानो व꣣ना꣢꣫ त्वं यन्मा꣣तॄ꣡रज꣢꣯गन्न꣣पः꣢ । न꣡ तत्ते꣢꣯ अग्ने प्र꣣मृ꣡षे꣢ नि꣣व꣡र्त꣢नं꣣ य꣢द्दू꣣रे꣢꣫ सन्नि꣣हा꣡भुवः꣢ ॥५३॥

का꣡य꣢꣯मानः । व꣣ना꣢ । त्वम् । यत् । मा꣣तॄः꣢ । अ꣡ज꣢꣯गन् । अ꣣पः꣢ । न । तत् । ते꣣ । अग्ने । प्रमृ꣡षे꣢ । प्र꣣ । मृ꣡षे꣢꣯ । नि꣣ । व꣡र्त्त꣢꣯नम् । यत् । दू꣣रे꣢ । दुः꣣ । ए꣢ । सन् । इ꣣ह꣢ । अ꣡भु꣢꣯वः ॥५३॥

Mantra without Swara
कायमानो वना त्वं यन्मातॄरजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ॥

कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः । न । तत् । ते । अग्ने । प्रमृषे । प्र । मृषे । नि । वर्त्तनम् । यत् । दूरे । दुः । ए । सन् । इह । अभुवः ॥५३॥

Samveda - Mantra Number : 53
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने२) प्रकाशक परमात्माग्ने ! (त्वम् वना) वनानि स्वरश्मीन्। वनम् रश्मिनाम। निघं० १।५। (कायमानः३) प्रकटयितुं कामयमानः। कै शब्दे धातुरत्र कामनार्थः। कायमानः चायमानः कामयमान इति वा इति निरुक्तम्। ४।१४। स्वयमस्माकम् आत्ममनोबुद्ध्यादिषु ज्वलितुमभिलषन्नपीत्यर्थः (यत् मातॄः अपः) अस्माकं मातृभूतानि उदकानि। आपो अस्मान् मातरः शुन्धयन्तु। ऋ० १०।१७।१० इति वचनात्। (अजगन्४) प्रविष्टोऽसि, शान्तोऽसीत्यर्थः। शान्तिर्वा आपः। ऐ० ७।५ इति वचनात्। अत्र गत्यर्थाद् गम्लृधातोः लङि सिपि बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ द्वित्वं, ‘मो नो धातोः।’ अ० ८।२।६४ इति मस्य नः। यच्छब्दयोगान्निघाताभावः। (तत् ते) तव (निवर्तनम्) मत्तो निवृत्तिः मां प्रति औदासीन्यमिति यावत्, अहम् (न) नैव (प्रमृषे५) सहे। प्र पूर्वो (मृष) तितिक्षायाम्, दिवादिः चुरादिश्च। (यत्) यस्मात् (दूरे सन्) साम्प्रतं दूरे विद्यमानस्त्वम्, पूर्वम् (इह) मत्समीपे (अभुवः६) अभूः, भूतवानसि। भूतवानसि। पूर्ववदद्यापि तव रश्मयो ममाभ्यन्तरे कुतो न प्रकाशन्ते इति भावः। अत्र यच्छब्दयोगात् यद्वृत्तान्नित्यम्।’ अ० ८।१।६६ इति निघाताभावः ॥९॥७ यास्काचार्यो मन्त्रमिमम् एवं व्याचष्टे—कायमानश्चायमानः कामयमानः इति वा वनानि त्वं यन्मातरपोऽगमः उपशाम्यन्। न तत्ते अग्ने प्रमृष्यते निवर्तनम्, दूरे यत् सन्निह भवसि जायमानः इति। निरु० ४।१४ ॥ अत्र प्रदीप्तिं कामयमानोऽपि न प्रदीप्यसे, प्रत्युत शान्तोऽसीति कारणसद्भावेऽपि कार्यासद्भावरूपो विशेषोक्तिरलङ्कारः। दूरे सन्निह अभुवः इत्यत्र च विरोधो व्यङ्ग्यः, व्याख्यातदिशा च विरोधपरिहारः ॥९॥
Essence
कृतपरमात्मसाक्षात्कारोऽपि कश्चिदनवधानत्ववशात् तं विस्मृतवान् सन् स्वोद्गारान् प्रकटयति—हे देव ! पूर्वं त्वं सदैव मदीयेष्वात्ममनोबुद्ध्यादिषु प्रदीप्यसे स्म। सम्प्रति तु हन्त, अद्भिर्भौतिकाग्निरिव शान्तोऽसि। एतत् तव मां प्रत्यौदासीन्यमहं नैव सोढुं शक्नोमि। कृपया प्रसुप्तिं परित्यज्य पूर्ववन्ममाभ्यन्तरे प्रदीप्यस्व ॥९॥
Subject
अथ परमात्माग्निं स्वहृदये दिदीपयिषुराह।
Footnote
१. ऋ० ३।९।२, भुवः इत्यत्र भवः इति पाठः। २. इयं वैद्युतस्याग्नेः स्तुतिः—इति भ०। ३. ‘चायृ पूजानिशामनयोः इत्यस्य चकारस्य ककारापत्त्या रूपम्—इति वि०। कै शब्दे, शब्दायमानः त्वम्—इति भ०। वनानि काननानि भक्षितुं कायमानः कामयमानः—इति सा०। ४. अजगत् आगच्छसि—इति वि०। अजगन्निति गमेः लुङि रूपम्, द्विर्वचनं छान्दसम्। तस्मिन् च्लेः लोपः, हलि आ लोपः। मो नो धातोः (पा० ८।२।६४) इति मकारस्य नकारः। लडर्थे लुङ् गच्छसि—इति भ०। ५. न प्रमृष्यते—इति वि०। न प्रमर्षणीयम्, कृत्यार्थे तवैकेन्केन्यत्वनः।’ पा० ३।४।१४ इति केन् प्रत्ययः—इति भ०। कृत्यार्थे केन् प्रत्ययः, न प्रमृष्यते न सह्यते—इति सा०। मृष तितिक्षायाम्, व्यत्ययेन कर्मणि त प्रत्ययः। लोपस्त आत्मनेपदेषु इति तलोपः—इति ऋ० ३।९।२ भाष्ये सा०। ६. आभुवः इति लेडन्तम्, आसमन्ताद् भवेः—इति भ०। किन्तु पदपाठे अभुवः इति दर्शनात् अस्माभिर्लुङन्तं व्याख्यातम्। ७. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्यार्थी अध्यापकमुपदेशकं वा प्राप्य सुखीभवतीति पक्षे व्याख्यातः।