Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 529

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् ज꣣न꣡य꣢न्प्र꣣जा꣡ भुव꣢꣯नस्य गो꣣पाः꣢ । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥५२९॥

अ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥५२९॥

Mantra without Swara
अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥

अक्रान् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । जनयन् । प्रजाः । प्र । जाः । भुवनस्य । गोपाः । गो । पाः । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । वावृधे । स्वानः । अद्रिः । अ । द्रिः ॥५२९॥

Samveda - Mantra Number : 529
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—पर्जन्यपरः। (समुद्रः) उदकस्य पारावारः मेघः (प्रथमे) श्रेष्ठे (विधर्मन्) विधर्मणि विशेषेण धारके अन्तरिक्षे। अत्र “सुपां सुलुक्०” अ० ७।१।३९ इति विभक्तेर्लुक्। (अक्रान्२) क्रामति, व्याप्नोति। (प्रजाः) वृक्षवनस्पत्यादिरूपाः (जनयन्) उत्पादयन् सः (भुवनस्य) भूतलस्य (गोपाः) रक्षको जायते। (वृषा) वर्षकः (स्वानः) भूमिं स्नपयन्। षुञ् अभिषवे, णिगर्भः। (अद्रिः) मेघरूपः। अद्रिरिति मेघनाम। निरु० १।१०। (सोमः) सोमः (पवित्रे) पूते (अव्ये) अविमये पार्थिवे इत्यर्थः। इयं पृथिवी वा अविः इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३। (सानौ३ अधि) पर्वतशृङ्गे (बृहत्) बहु (वावृधे) वर्धते। वृधु वर्द्धने, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः ॥ अथ द्वितीयः—परमात्मपरः। (समुद्रः) शक्तेः पारावारः परमेश्वरः (प्रथमे) श्रेष्ठे (विधर्मन्) विधर्मणि विशेषेण जडचेतनानां धारके ब्रह्माण्डे (अक्रान्) पदं निधत्ते, व्याप्नोति। (प्रजाः) जडचेतनरूपाः (जनयन्) उत्पादयन् सः (भुवनस्य) जगतः (गोपाः) रक्षको भवति। (वृषा) सद्गुणानां सेचकः, अन्तरिक्षस्थानाम् उदकानां वर्षको वा (स्वानः) सत्कर्मसु प्रेरयन् (अद्रिः) अविनश्वरः, न केनापि विदारयितुं शक्यः४ (सोमः) स परमेश्वरः (पवित्रे) मेध्ये (अव्ये) अव्यये अविनाशिनि (सानौ अधि) उन्नते जीवात्मनि (बृहत्) बहु (वावृधे) वर्धते महिमानमाप्नोतीत्यर्थः। यतो जीवात्मनो महत्सु कार्येषु तस्यैव महिमा दरीदृश्यते ॥७॥ निरुक्तकार ऋचमिमाम् आदित्यपक्षे आत्मपक्षे५ च व्याख्यातवान्—“अत्यक्रमीत् समुद्र आदित्यः परमे व्यवने वर्षकर्मणा जनयन् प्रजा भुवनस्य राजा सर्वस्य राजा। वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुरित्यधिदैवतम्। अथाध्यात्मम्—अत्यक्रमीत् समुद्र आत्मा परमे व्यवने ज्ञानकर्मणा जनयन् प्रजा भुवनस्य राजा सर्वस्य राजा। वृषा पवित्रे अधिसानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुरित्यात्मगतिमाचष्टे” (निरु० १४।१६) इति ॥ अत्र पर्जन्यपरमेश्वरयोर्द्वयोरर्थयोर्वर्णनाच्छ्लेषोऽलङ्कारः। द्वयोश्चोपमानोपमेयभावो ध्वन्यते ॥७॥
Essence
यथाऽगाधजलराशिर्मेघोऽन्तरिक्षं व्याप्नोति तथा परमेश्वरः सकलं ब्रह्माण्डं व्याप्नोति। यथा मेघो वर्षित्वा वृक्षवनस्पतीन् जनयति तथा परमेश्वरो जडचेतनान् सर्वान् पदार्थान् जनयति। यथा मेघो भूतलस्य रक्षकस्तथा परमेश्वरः सर्वेषां भुवनानां रक्षकः। यथा मेघः पर्वतानां सानुषु विस्तारमाप्नोति तथा परमेश्वरो जनानामात्मसु ॥७॥
Subject
अथ सोमनाम्ना पर्जन्यं परमात्मानं च वर्णयति।
Footnote
१. ऋ० ९।९७।४० ‘गोपाः’, ‘स्वानो अद्रिः’ अत्र क्रमेण ‘राजा’, ‘सुवान इन्दुः’ इति पाठः। साम० १२५३। २. अक्रान् सर्वमतिक्रामति। क्रमतेर्लुङि, तिपि, इडभावे वृद्धौ च कृतायां सिज्लोपे भकारस्य ‘मो नो धातो’ रिति नकारे रूपम्—इति सा०। ३. नौ। ऋक्तन्त्रप्रातिशाख्यम् १०।१०–। नौ शब्दश्च ह्रस्वे अकारे प्रत्यये ओ भवति। सानौ अव्ये—‘वृषा पवित्रे अधि सानो अव्ये’। अकार इति किम् ? अश्विनौ ऋषिः—‘स्तोता वामश्विनावृषिः’। इति विवरणम्। ४. पदपाठे ‘अ-द्रि’ इति च्छेदात् नञ्पूर्वो दृ विदारणे धातुरत्र बोध्यः। न दीर्यते दार्यते वा केनचिद् यः सोऽद्रिः। ५. विवरणकारोऽपि आदित्यपक्षे आत्मपक्षे च व्याचष्टे—“अतीत्य गच्छत्युदयादस्तं सदा समुद्रः आदित्यः...अद्रिः आदित्य आदरणः।... समुद्रः आत्मा अभिद्रवन्ते तं भूतानि” इत्यादि।