Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 528

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡म꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णीः꣢ । व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢꣫ सिन्धु꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥५२८॥

अ꣣भि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । वृ꣡ष꣢꣯णम् । व꣣योधा꣢म् । व꣣यः । धा꣢म् । अ꣣ङ्गोषि꣡ण꣢म् । अ꣣वावशन्त । वा꣡णीः꣢꣯ । व꣡ना꣢꣯ । व꣡सा꣢꣯नः । व꣡रु꣢꣯णः । न । सि꣡न्धुः꣢꣯ । वि । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । द꣣यते । वा꣡र्या꣢꣯णि ॥५२८॥

Mantra without Swara
अभि त्रिपृष्ठं वृषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि ॥

अभि । त्रिपृष्ठम् । त्रि । पृष्ठम् । वृषणम् । वयोधाम् । वयः । धाम् । अङ्गोषिणम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धुः । वि । रत्नधाः । रत्न । धाः । दयते । वार्याणि ॥५२८॥

Samveda - Mantra Number : 528
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्रिपृष्ठम्२) त्रीणि ऋग्यजुःसामरूपाणि, पृथिव्यन्तरिक्षद्युरूपाणि, अग्निवाय्वादित्यरूपाणि, सत्त्वरजस्तमोरूपाणि, मनःप्राणात्मरूपाणि वा पृष्ठानि यस्य तम्, (वृषणम्) सुखादीनां वर्षकम् (वयोधाम्३) आयुष्प्रदातारम्, (अङ्गोषिणम्४) अङ्गे अङ्गे निवसन्तं स्तुत्यं वा परमात्मरूपं सोमम्। अङ्गपूर्ववसधातोरिनिप्रत्यये सम्प्रसारणे रूपम्। यद्वा आङ्गूषः स्तोमः तद्वन्तं स्तुत्यमित्यर्थः। ‘आङ्गूषः स्तोम आघोषः’ इति यास्कः। निरु० ५।११। (वाणीः) वेदवाण्यः। जसि छान्दसः पूर्वसवर्णदीर्घः। (अभि अवावशन्त५) भृशं गायन्ति। वाशृ शब्दे इति धातोः यङ्लुकि छान्दसं रूपम्। (वरुणः न) सूर्यः इव (वना) तेजोरश्मीन् वनमिति रश्मिनाम। निघं० १।५। (वसानः) धारयन् स परमात्मा, (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्रः इव इति लुप्तोपमम् (वार्याणि) वरणीयानि रत्नानि भौतिकाध्यात्मिकानि (विदयते) विशेषेण ददाति। दय दानगतिरक्षणहिंसादानेषु भ्वादिः ॥६॥ अत्रोपमालङ्कारः ॥६॥
Essence
सूर्य इव समुद्र इव च तेजसां रत्नानां च निधिः परमेश्वरस्तेजांसि रत्नानि च प्रदाय सर्वान् सुसमृद्धान् करोति ॥६॥
Subject
अथ कीदृशः परमात्मा किं करोतीत्याह।
Footnote
१. ऋ० ९।९०।२ ‘मङ्गोषिण’ ‘सिन्धुर्’ इत्यत्र क्रमेण ‘माङ्गूषाणा’ ‘सिन्धून्’ इति पाठः। साम० १४०८। २. त्रिपृष्ठम् त्रीणि पृष्ठानि सवनानि लोकाः देवाः वेदा वा—इति वि०। त्रिपृष्ठं त्रिस्थानम्, सवनानि त्रीणि द्रोणकलशपूतभृदाहवनीयाख्यानि वा स्थानानि—इति भ०। ३. वयोधाम् अन्नानां दातारं यशसां वा—इति वि०। ४. अङ्गोषिणं मतिसमूहम्—इति वि०। आघोषिणम्—इति भ०। आघोषन्तं सोमम्—इति सा०। ५. अवावशन्त कामयन्ते शब्दायन्ते वा—इति सा०।