Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 527

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
सो꣡मः꣢ पवते जनि꣣ता꣡ म꣢ती꣣नां꣡ ज꣢नि꣣ता꣢ दि꣣वो꣡ ज꣢नि꣣ता꣡ पृ꣢थि꣣व्याः꣢ । ज꣣निता꣡ग्नेर्ज꣢꣯नि꣣ता꣡ सूर्य꣢꣯स्य जनि꣣ते꣡न्द्र꣢स्य जनि꣣तो꣡त विष्णोः꣢꣯ ॥५२७॥

सो꣡मः꣢꣯ । प꣣वते । जनिता꣢ । म꣣तीना꣢म् । ज꣣निता꣢ । दि꣣वः꣢ । ज꣣निता꣢ । पृ꣣थिव्याः꣢ । ज꣣निता꣢ । अ꣣ग्नेः꣢ । ज꣣निता꣢ । सू꣡र्य꣢꣯स्य । ज꣣निता꣢ । इ꣡न्द्र꣢꣯स्य । ज꣣निता꣢ । उ꣣त꣢ । वि꣡ष्णोः꣢꣯ ॥५२७॥

Mantra without Swara
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥

सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः । जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः ॥५२७॥

Samveda - Mantra Number : 527
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) सर्वोत्पादकः, रसागारः, चन्द्रवत् कमनीयः परमेश्वरः (पवते) हृदयानि पुनाति, यः (मतीनाम्) मनीषाणाम् (जनिता) उत्पादकः, (दिवः) द्युलोकस्य मनोमयकोशस्य वा (जनिता) उत्पादकः, (पृथिव्याः) भूलोकस्य, अन्नमयकोशस्य वा (जनिता) उत्पादकः, (अग्नेः) वह्नेः वाचो वा। वागेवाग्निः। श० ३।२।२।१३। (जनिता) उत्पादकः, (सूर्यस्य) आदित्यस्य, चक्षुषो वा। आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्। ऐ० उ० २।४। (जनिता) उत्पादकः, (इन्द्रस्य) वायोः, प्राणमयकोशस्य वा। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। प्राण एवेन्द्रः। श० १२।९।१।१४। (जनिता) उत्पादकः, (उत) अपि च (विष्णोः) यज्ञस्य। यज्ञो वै विष्णुः। श० १।१।२।१३। (जनिता) उत्पादकः वर्तते। जनयिता इति प्राप्ते ‘जनिता मन्त्रे’ अ० ६।४।५३ इति णिलोपो निपात्यते ॥५॥ ऋचमिमां निरुक्तकार एवं व्याचष्टे—सोमः पवते। सोमः सूर्यः प्रसवनात् जनयिता मतीनां प्रकाशनकर्मणामादित्यरश्मीनां, दिवो द्योतनकर्मणामादित्यरश्मीनां, अग्नेर्गतिकर्मणामादित्यरश्मीनां, सूर्यस्य स्वीरणकर्मणामादित्यरश्मीनाम्, इन्द्रस्य ऐश्वर्यकर्मणामादित्यरश्मीनां, विष्णोर्व्याप्तिकर्मणामादित्यरश्मीनाम् इत्यधिदैवतम्। अथाध्यात्मम्—सोम आत्मापि एतस्मादेव इन्द्रियाणां जनिता इत्यर्थः। अपि वा सर्वाभिर्विभूतिभिः विभूततम आत्मा इति आत्मगतिमाचष्टे। (निरु० १४।१२) ॥ मुहुर्मुहुः ‘जनिता’ इति कथनाद् अन्येषामपि बहूनां पदार्थानां जनकत्वं सूच्यते। लाटानुप्रासोऽलङ्कारः। कुवलयानन्दानुसरणे तु आवृत्तिदीपकालङ्कारः२ ॥५॥
Essence
सर्वोत्पादकेन परमात्मनैव ब्रह्माण्डस्य सूर्यचन्द्रवायुविद्युदादीनि शरीरपिण्डस्य च प्राणमनोबुद्धिवाक्चक्षुःश्रोत्रादीनि रचितानि सन्ति, तन्निर्माणे कस्यचिन्मनुष्यस्य सामर्थ्याभावात् ॥५॥
Subject
अथ परमात्मनः सर्वजनकत्वमाह।
Footnote
१. ऋ० ९।९६।५, साम० ९४३। २. ‘माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः’ (कु० ५०) इतिवत्।