Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 526

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣स्य꣢ प्रे꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नो दे꣣वो꣢ दे꣣वे꣢भिः꣣ स꣡म꣢पृक्त꣢ र꣡स꣢म् । सु꣣तः꣢ प꣣वि꣢त्रं꣣ प꣡र्ये꣢ति꣣ रे꣡भ꣢न्मि꣣ते꣢व꣣ स꣡द्म꣢ पशु꣣म꣢न्ति꣣ हो꣡ता꣢ ॥५२६॥

अ꣣स्य꣢ । प्रे꣣षा꣢ । हे꣣म꣡ना꣢ । पू꣣य꣡मा꣢नः । दे꣣वः꣢ । दे꣣वे꣡भिः꣣ । सम् । अ꣣पृक्त । र꣡स꣢꣯म् । सु꣣तः꣢ । प꣣वि꣢त्र꣢म् । प꣡रि꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् । मि꣣ता꣢ । इ꣣व । स꣡द्म꣢꣯ । प꣣शुम꣡न्ति꣢ । हो꣡ता꣢꣯ ॥५२६॥

Mantra without Swara
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥

अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् । सुतः । पवित्रम् । परि । एति । रेभन् । मिता । इव । सद्म । पशुमन्ति । होता ॥५२६॥

Samveda - Mantra Number : 526
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) सौम्यज्योतिषः परमात्मनः (प्रेषा) प्रेरणया (हेमना) ज्योतिषा च। अत्र हेम्ना इति प्राप्ते सर्वेषां विधीनां छन्दसि विकल्पनात्, ‘अल्लोपोऽनः’ इति प्राप्तः अकारलोपो न भवति। (पूयमानः) पवित्रीक्रियमाणः (देवः) द्योतमानः आत्मा (देवेभिः) मनःसहितैः ज्ञानेन्द्रियैः सह संभूय (रसम्) आनन्दम् (समपृक्त) स्वात्मनि संपृणक्ति। (सुतः) ध्यानद्वारा अभिषुतः परमात्मसोमः (रेभन्) कर्तव्यमुपदिशन्। रेभृ शब्दे भ्वादिः। (पवित्रम्) मनोरूपं दशापवित्रम् (पर्येति) परिगच्छति, (इव) यथा (होता) होतृनामकः ऋत्विक् (पशुमन्ति) पशुयुक्तानि (मिता) मितानि निर्मितानि (सद्म) सद्मानि गृहाणि पयोघृताद्यानयनाय गच्छति तद्वत्। मिता, सद्म इत्युभयत्र ‘शेश्छन्दसि बहुलम्’ अ० ६।१।७० इति शसः शेर्लोपः ॥४॥ अत्रोपमालङ्कारः ॥४॥
Essence
उपासकानामन्तःकरणे प्रकटितः परमेश्वरस्तान् पवित्रांस्तेजस्विनश्च विदधाति ॥४॥
Subject
अथात्मपरमात्मविषयमाह।
Footnote
१. ऋ० ९।९७।१, साम० १३९९।