Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 525

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯रृ꣣त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म् । गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥५२५॥

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । ई꣣रयति । प्र꣢ । व꣡ह्निः꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣢म् । ब्र꣡ह्म꣢꣯णः । म꣣नीषा꣢म् । गा꣡वः꣢꣯ । य꣣न्ति । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । पृच्छ꣡मा꣢नाः । सो꣡म꣢꣯म् । य꣣न्ति । मत꣡यः꣢ । वा꣣वशानाः꣢ ॥५२५॥

Mantra without Swara
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥

तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् । गावः । यन्ति । गोपतिम् । गो । पतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥५२५॥

Samveda - Mantra Number : 525
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (वह्निः) जगतो वोढा सोमः परमेश्वरः (तिस्रः वाचः) ऋग्यजुःसामरूपाः तिस्रो वाणीः। तेषामृग् यत्रार्थवशेन पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुःशब्दः। जै० सू० २।१।३५-३७। (प्र ईरयति) प्रजानां कल्याणाय उपदिशति, स एव (ऋतस्य) सत्यमयस्य यज्ञस्य। ऋतस्य योगे यज्ञस्य योगे। निरु० ६।२२ इति निरुक्तप्रामाण्याद् ऋतं यज्ञः। (धीतिम्) धारणम्, (ब्रह्मणः) ज्ञानस्य (मनीषाम्) मननं च, प्र ईरयति उपदिशति। (गावः) पृथिव्यादयो लोकाः सूर्यकिरणाः वा (गोपतिम्) निजस्वामिनम् (पृच्छमानाः) पृच्छन्त्यः इव (यन्ति) गच्छन्ति— क्वाऽस्माकमधिपतिर्योऽस्मान् सञ्चालयतीति ज्ञीप्समाना इव पर्यटन्तीत्यर्थः। तथैव (मतयः) मम स्तुतयः (वावशानाः) अतिशयेन पुनः-पुनः कामयमानाः। वश कान्तौ यङ्-लुगन्तात् शानच्। (सोमम्) रसागारं परमात्मानम् (यन्ति) प्राप्नुवन्ति ॥ अथ द्वितीयः—जीवात्मपरः। (वह्निः) शरीरस्य वोढा जीवात्मा (तिस्रः वाचः) ज्ञानरूपे, विचाररूपे, जिह्वायाः कण्ठताल्वादिसंयोगजन्यशब्दरूपे च विद्यमानाः त्रिविधाः वाणीः (प्र ईरयति) प्रकटयति। स एव (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) उपार्जितज्ञानस्य (मनीषाम्) मननं च करोति। (गावः) मनःसहितानि पञ्चज्ञानेन्द्रियाणि (पृच्छमानाः) कर्तव्याकर्तव्यं पृच्छन्त्यः इव (गोपतिम्) इन्द्रियाणां स्वामिनम् आत्मानम् (यन्ति) उपगच्छन्ति। (मतयः) मदीयाः बुद्धयः (वावशानाः) अध्यवसायात्मके ज्ञाने साधनीभवितुं कामयमानाः इव (सोमम्) ज्ञातारम् आत्मानम् (यन्ति) उपगच्छन्ति ॥ अथ तृतीयः—आचार्यपरः। (वह्निः) ज्ञानस्य वाहकः सौम्यः आचार्यः, शिष्याय (तिस्रः वाचः) ज्ञानकर्मोपासनाकाण्डप्रतिपादिकाः, सत्त्वरजस्तमःप्रतिपादिकाः, सृष्ट्युत्पत्तिस्थितिप्रलयप्रतिपादिकाः, जाग्रत्स्वप्नसुषुप्तिप्रतिपादिकाः, धर्मार्थकामप्रतिपादिकाः वा तिस्रो वाणीः (प्र ईरयति) प्रोच्चारयति। स एव (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) परमेश्वरस्य मोक्षस्य वा (मनीषाम्) प्रज्ञाम् च (प्र ईरयति) प्रयच्छति। (गावः) मदीयाः वाचः (पृच्छमानाः) ब्रह्मविद्याविषयकान् प्रश्नान् कुर्वाणाः (गोपतिम्) वाचस्पतिम् आचार्यम् (यन्ति) प्राप्नुवन्ति। (मतयः) मदीयाः बुद्धयः (वावशानाः) ज्ञानोद्घाटनं कामयमानाः (सोमम्) ज्ञानरसागारं सौम्यम् आचार्यम् (यन्ति) प्राप्नुवन्ति ॥३॥२ यास्काचार्य ऋचमिमामेवं व्याख्यातवान्—“वह्निरादित्यो भवति, स तिस्रो वाचः प्रेरयति ऋचो यजूंषि सामानि। एतस्यादित्यस्य कर्माणि ब्रह्मणो मतानि। एष एवैतत् सर्वमक्षरमित्यधिदैवतम्। अथाध्यात्मम् वह्निरात्मा भवति, स तिस्रो वाच ईरयति प्रेरयति विद्यामतिबुद्धिमतानि ऋतस्य आत्मनः कर्माणि ब्रह्मणो मतानि, अयमेवैतत् सर्वमनुभवतीत्यात्मगतिमाचष्टे” इति (निरु० १४।१४)। अत्र श्लेषालङ्कारः। आद्यपक्षद्वये ‘गावो यन्ति गोपतिं पृच्छमानाः’ इत्यत्र व्यङ्ग्योत्प्रेक्षा च ॥३॥
Essence
वाचां प्रेरकः, सत्यस्य यज्ञस्य वा धापयिता, ज्ञानस्य प्रदाता, मनोबुद्ध्यादीनां संस्कर्ता च परमेश्वरो जीवात्मा गुरुश्च सदा सेवनीयः सत्कर्तव्यश्च ॥३॥
Subject
अथ सोमनाम्ना परमात्मानं जीवात्मानमाचार्यं च वर्णयति।
Footnote
१. ऋ० ९।९७।३४, साम० ८५९। २. अस्या ऋचो व्याख्याने विवरणकृन्माधव एवमाह—“तिस्रो वाचः ऋग्यजुःसामानि। वह्निः वोढा सोमः। ऋतस्य धीतिं कर्म। ब्रह्मणो मनीषां मन्त्राणि वेदोक्तानि प्रेरयति। गोपतिं यजमानम् ॥ यद्यपि पावमानीषु सोमं मुक्त्वा अन्या देवता न सम्भवन्ति तथाप्यष्टादशे व्याख्यातेति कृत्वा तेनापि आत्मानुस्मरणार्थमालिख्यते। तिस्रो वाचः ऋग्यजुःसामानि। अथवा तिस्रो वाचः सत्त्वरजस्तमांसि। अथवा जाग्रत्स्वप्नसुषुप्तिवृत्तयः। ईरयति प्रेरयति। उदकं रश्मींश्च वहतीति वह्निरादित्यः। ऋतस्य आदित्यस्य धीतिम् अथवा ऋतस्य सत्यस्य ब्रह्मणः, अथवा ऋतस्य अन्नस्य धीतिं यज्ञस्य वा आदित्यस्य वा।.... एतमेव गोपतिं रश्मिस्वामिनं वा पृच्छन्त इव सोमं यन्ति। पृथिवीं वसानाः सर्वोपकाराय सोमम् आदित्यं, मतयः।....रश्मयः वावशाना आदित्यं यन्ति प्रविशन्ति। अध्यात्मं वा—वह्निरात्मा भवति, वश्यादिगुणसंयोगात्। स तिस्रो वाचः प्रेरयति विद्याबुद्धिमनांसि। विद्या महान्, बुद्धिरहङ्कारो मन इति प्राधान्याद् भूतेन्द्रियाणि। ऋतस्य आत्मनः। गावः यन्ति आत्मानम् इन्द्रियाणां स्वामिनं पृच्छमानाः आत्मानम्। तदभिप्रायेण शब्दाद्यनुगमात्। एतमेवात्मानं सोमं कामयमाना इव यन्ति मतयः तदर्थं प्रादुर्भवन्ति” इति। अथ भरतः—“तिस्रः त्रिविधाः मन्द्रमध्यमोत्तमाः। वह्निः वोढा यज्ञस्य। ऋतस्य यज्ञस्य। धीतिं विधानम् अनुष्ठानं च प्रेरयति। सोमे अभिषुते कर्माणि प्रवर्त्यन्ते। ब्रह्मणः ब्राह्मणानाम्। मनीषां स्तुतिं च प्रेरयति। सामान्यवाची ब्रह्मशब्दः नपुंसकलिङ्गः। गावः यन्ति अभिगच्छन्ति गोपतिं सोमम् पृच्छमाना अन्विच्छन्त्यः। सोमं यन्ति मतयः स्तुतयः। वावशानाः कामयमानाः” इति। अथ सायणः—“वह्निः वोढा यजमानः तिस्रो वाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति। तथा ऋतस्य यज्ञस्य धीतिं धारयित्रीं ब्रह्मणः परिवृढस्य सोमस्य मनीषां मनस ईशित्रीं कल्याणवाचं च प्रेरयति। किञ्च गोपतिं वृषभं यथा गावोऽभिगच्छन्ति तद्वत् गवां स्वामिनं सोमं गावः पृच्छमानाः पृच्छन्त्यः सत्यो यन्ति स्वपयसा आश्रयितुमभिगच्छन्ति, तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति” इति।