Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 524

1875 Mantra
Devata- पवमानः सोमः Rishi- बृषगणो वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ काव्य꣢꣯मु꣣श꣡ने꣢व ब्रुवा꣣णो꣢ दे꣣वो꣢ दे꣣वा꣢नां꣣ ज꣡नि꣢मा विवक्ति । म꣡हि꣢व्रतः꣣ शु꣡चि꣢बन्धुः पाव꣣कः꣢ प꣣दा꣡ व꣢रा꣣हो꣢ अ꣣꣬भ्ये꣢꣯ति꣣ रे꣡भ꣢न् ॥५२४॥

प्र꣢ । का꣡व्य꣢꣯म् । उ꣣श꣡ना꣢ । इ꣣व । ब्रुवाणः꣢ । दे꣣वः꣢ । दे꣣वा꣡ना꣢म् । ज꣡नि꣢꣯म । वि꣣वक्ति । म꣡हि꣢꣯व्रतः । म꣡हि꣢꣯ । व्र꣣तः । शु꣡चि꣢꣯बन्धुः । शु꣡चि꣢꣯ । ब꣣न्धुः । पावकः꣢ । प꣣दा꣢ । व꣣राहः꣢ । अ꣣भि꣢ । ए꣣ति । रे꣡भ꣢꣯न् ॥५२४॥

Mantra without Swara
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥

प्र । काव्यम् । उशना । इव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति । महिव्रतः । महि । व्रतः । शुचिबन्धुः । शुचि । बन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥५२४॥

Samveda - Mantra Number : 524
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उशना इव२) धर्मकामो विद्वान् इव। वष्टि कामयते धर्मादिप्रचारं स उशना। वश कान्तौ। उशनस् शब्दात् सौ ‘ऋदुशनस्पुरुदंसोऽनेहसां च’ अ० ७।१।९४ इत्यनङ्। (काव्यम्) वेदकाव्यम् (प्र ब्रुवाणः) उपदिशन् (देवः) दानादिगुणयुक्तः सोमः परमेश्वरः (देवानाम्) प्रकाशकानाम् अग्निसूर्यविद्युदादीनाम् इन्द्रियाणां च (जनिम) जन्म, उत्पत्तिप्रकारम्। संहितायां दीर्घश्छान्दसः। (प्र विवक्ति) वेदद्वारा प्रकर्षेण व्याचष्टे। अत्र वचेर्लटि ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः।३ (महिव्रतः) महाकर्मा, (शुचिबन्धुः४) शुचयः पवित्रात्मानो जनाः बन्धवो यस्य तथाविधः, (पावकः) जनानां पवित्रयिता स जगदीश्वरः (रेभन्) गर्जन् (वराहः५) वराहारो मेघः इव। वराहो मेघो भवति वराहारः। निरु० ५।४। (रेभन्) उद्बोधनशब्दान् ब्रुवन्। रेभृ शब्दे भ्वादिः। (पदा) पदानि गन्तव्यानि सत्पात्राणि, सत्पात्रभूतान् जनानित्यर्थः (अभ्येति) प्राप्नोति ॥२॥ ‘उशनेव’ इत्यत्र वाच्योपमा। ‘वराहः’ इत्यत्र लुप्तोपमा। ‘देवो-देवा’ इत्यत्र छेकानुप्रासः ॥२॥
Essence
यथा सोमरसो धारापातशब्दं कुर्वन् पात्राणि गच्छति, यथा वा मेघो गर्जन् भूमौ वर्षति, तथैव सौम्यः परमेश्वरो रसनां विनापि सत्कर्माण्युपदिशन् स्तोतॄन् जनानुपगच्छति ॥२॥
Subject
अथ सोमः परमात्मा किं करोतीत्याह।
Footnote
१. ऋ० ९।९७।७, साम० १११६। २. (उशना) धर्मकामुकः इति ऋ० १।१२१।१२ भाष्ये द०। ३. न त्वत्र व्युपसर्गो वचिः ग्राह्यः पदपाठेऽविभज्य दर्शनात्। ४. बध्नन्ति शत्रूनिति बन्धूनि तेजांसि बलानि वा। दीप्ततेजस्कः—इति सा०। ५. वराहः वराणां धनानाम् आगमयिता सोमः—इति भ०। वरञ्च तदहश्च वराहः। ‘राजाहःसखिभ्यष्टच्’ इति टच् समासान्तः। तस्मिन्नहनि अभिषूयमाणत्वेन तद्वान्। अर्शआदित्वान्मत्वर्थीयोऽच्।—इति सा०।