Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 523

1875 Mantra
Devata- पवमानः सोमः Rishi- उशना काव्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ तु द्र꣢꣯व꣣ प꣢रि꣣ को꣢शं꣣ नि꣡ षी꣢द꣣ नृ꣡भिः꣢ पुना꣣नो꣢ अ꣣भि꣡ वाज꣢꣯मर्ष । अ꣢श्वं꣣ न꣡ त्वा꣢ वा꣣जि꣡नं꣢ म꣣र्ज꣢य꣣न्तो꣡ऽच्छा꣣ ब꣣र्ही꣡ र꣢श꣣ना꣡भि꣢र्नयन्ति ॥५२३॥

प्र꣢ । तु । द्र꣣व । प꣡रि꣢꣯ । को꣡श꣢꣯म् । नि । सी꣣द । नृ꣡भिः꣢꣯ । पु꣣नानः꣢ । अ꣣भि꣢ । वा꣡ज꣢꣯म् । अ꣣र्ष । अ꣡श्व꣢꣯म् । न । त्वा꣣ । वाजि꣡न꣢म् । म꣣र्ज꣡य꣢न्तः । अ꣡च्छ꣢꣯ । ब꣣र्हिः꣢ । र꣣शना꣡भिः꣢ । न꣣यन्ति ॥५२३॥

Mantra without Swara
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥

प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥५२३॥

Samveda - Mantra Number : 523
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे आत्मन् ! त्वम् (तु) क्षिप्रम् (प्र द्रव) प्रकृष्टायां दिशि धाव, (कोशम्) आनन्दमयकोशम् (परि निषीद) अभिव्याप्य स्थितो भव। (नृभिः) नेतृभिः स्वकीयैः पौरुषैः (पुनानः) मनोबुद्ध्यादिकं पवित्रं कुर्वन् (वाजम् अभि) देवासुरसङ्ग्रामं प्रति (अर्ष) असुराणां पराजयार्थं गच्छ। (वाजिनम्) ज्ञानवन्तम् (त्वा) त्वाम् (मर्जयन्तः) सद्गुणैरलङ्कुर्वन्तः। (रशनाभिः) यमनियमरज्जुभिः सन्नियन्त्र्य, शिक्षकाः योगिनः (बर्हिः अच्छ) प्ररब्रह्म२ प्रति। बृंहति वर्द्धते महिमान्वितो भवतीति बर्हिः ब्रह्म। ‘बृंहेर्नलोपश्च’ उ० २।१११ इति इसि प्रत्ययः, नकारलोपश्च। (नयन्ति) प्रेरयन्ति, (न) यथा (वाजिनम्) बलिनम् (अश्वम्) तुरगम् (मर्जयन्तः) शोधयन्तोऽलङ्कुर्वन्तो वा योद्धारः (रशनाभिः) प्रग्रहैः संनियन्त्र्य (बर्हिः अच्छ) संग्रामयज्ञं प्रति नयन्ति प्रापयन्ति ॥१॥ अत्र उत्तरार्द्धे श्लिष्टोपमालङ्कारः ॥१॥
Essence
यथा बलवन्तमश्वं साङ्ग्रामिका जना रशनाभिः संनियन्त्र्य संग्रामं प्रति नयन्ति तथा योगप्रशिक्षका जना मनुष्यस्यात्मानं यमनियमादियोगसाधनैः संनियन्त्र्य परब्रह्म प्रति नयन्तु ॥१॥
Subject
अथ जीवात्मानमुद्बोधयति।
Footnote
१. ऋ० ९।८७।१, साम० ६७७। २. ‘बर्हिः अन्तरिक्षवद् व्यापकं ब्रह्म’ इति य० २९।२९ भाष्ये द०।