Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 522

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢माना असृक्षत प꣣वि꣢त्र꣣म꣢ति꣣ धा꣡र꣢या । म꣣रु꣡त्व꣢न्तो मत्स꣣रा꣡ इ꣢न्द्रि꣣या꣡ हया꣢꣯ मे꣣धा꣢म꣣भि꣡ प्रया꣢꣯ꣳसि च ॥५२२॥

प꣡वमा꣢꣯नाः । अ꣣सृक्षत । पवि꣡त्र꣢म् । अ꣡ति꣢꣯ । धा꣡र꣢꣯या । म꣣रु꣡त्व꣢न्तः । म꣣त्सराः꣢ । इ꣣न्द्रियाः꣢ । ह꣡याः꣢꣯ । मे꣣धा꣢म् । अ꣣भि꣢ । प्र꣡याँ꣢꣯सि । च꣣ ॥५२२॥

Mantra without Swara
पवमाना असृक्षत पवित्रमति धारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयाꣳसि च ॥

पवमानाः । असृक्षत । पवित्रम् । अति । धारया । मरुत्वन्तः । मत्सराः । इन्द्रियाः । हयाः । मेधाम् । अभि । प्रयाँसि । च ॥५२२॥

Samveda - Mantra Number : 522
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानाः) पवित्रतां सम्पादयन्तः एते ज्ञानरसरूपाः सोमाः (धारया) धारारूपेण (पवित्रम् अति) पवित्रहृदयरूपं दशापवित्रमतिक्रम्य (असृक्षत) आत्मरूपे द्रोणकलशे विसृज्यन्ते। (मरुत्वन्तः) प्राणयुक्ताः, (मत्सराः) तृप्तिकराः, (इन्द्रियाः) इन्द्रेण आत्मना जुष्टाः। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’ अ० ५।२।८३ इति जुष्टार्थे घच्प्रत्ययान्तो निपातः। (हयाः) गन्तारः। हय गतौ भ्वादिः। एते ज्ञानरसाः (मेधाम्) धारणावतीं बुद्धिम् (प्रयांसि च) आनन्दरसांश्च। प्रय इति उदकनामसु पठितम्, निघं० १।१२। (अभि) अभिवर्षन्ति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥१२॥
Essence
मनसा प्राणेन च पूता ज्ञानरसा यदाऽऽत्मानुपतिष्ठन्ते तदा मेधाया आनन्दस्य च वर्षका जायन्ते ॥१२॥ अत्रापि सोमस्य परमात्मनस्तत आगताया आनन्दधारायाश्च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्ति ॥ इति षष्ठे प्रपाठके प्रथमार्धे तृतीया दशतिः ॥ इति पञ्चमेऽध्याये पञ्चमः खण्डः ॥
Subject
अथ ज्ञानरसानां प्राप्तिं वर्णयति।
Footnote
१. ऋ० ९।७।१२५।