Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 521

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢स्व वाज꣣सा꣡त꣢मो꣣ऽभि꣡ विश्वा꣢꣯नि꣣ वा꣡र्या꣢ । त्व꣡ꣳ स꣢मु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् दे꣣वे꣡भ्यः꣢ सोम मत्स꣣रः꣢ ॥५२१॥

प꣡व꣢꣯स्व । वा꣣जसा꣡त꣢मः । वा꣣ज । सा꣡त꣢꣯मः । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । त्वम् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । देवे꣡भ्यः꣢ । सो꣣म । मत्सरः꣢ ॥५२१॥

Mantra without Swara
पवस्व वाजसातमोऽभि विश्वानि वार्या । त्वꣳ समुद्रः प्रथमे विधर्मन् देवेभ्यः सोम मत्सरः ॥

पवस्व । वाजसातमः । वाज । सातमः । अभि । विश्वानि । वार्या । त्वम् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । देवेभ्यः । सोम । मत्सरः ॥५२१॥

Samveda - Mantra Number : 521
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ऐश्वर्यशालिन् जगदीश्वर राजन् वा ! (वाजसातमः) ऐश्वर्याणां दातृतमः त्वम्। वाजान् अन्नधनबलादीन् सनोतीति वाजसाः, अतिशयेन वाजसाः वाजसातमः। वाजोपपदात् सनोतेः ‘जनसनखनक्रमगमो विट्। अ० ३।२।६७’ इति विट् प्रत्ययः, ‘विड्वनोरनुनासिकस्यात्। अ० ६।४।४१’ इति नकारस्याकारादेशः। (विश्वानि) सर्वाणि (वार्या) वरणीयानि ऐश्वर्याणि (अभिपवस्व) अभिप्रापय। (त्वम्) परमेश्वरो राजा वा (समुद्रः) परमेश्वरोचितानां राजोचितानां वा बलवीर्यादीनां पारावारः असि। त्वम् (प्रथमे) श्रेष्ठे (विधर्मन्२) विधर्मणि विशिष्टे जगद्धारणयज्ञे प्रजापालनयज्ञे वा। अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति सप्तम्या लुक्। (देवेभ्यः) विद्वद्भ्यः (मत्सरः) आनन्दप्रदः, भवेति शेषः ॥११॥
Essence
यथा जगदीश्वरो जगति सर्वेषामैश्वर्याणां दातास्ति, तथा राष्ट्रे नृपतिः प्रजाभ्यः ऐश्वर्याणि प्रयच्छेत् ॥११॥
Subject
अथ सोमनाम्ना परमात्मानं राजानं वा प्रार्थयते।
Footnote
१. ऋ० ९।१०७।२३ “पवस्व वाजसातयेऽभि विश्वानि काव्या। त्वं समुद्रं प्रथमो विधारयो देवेभ्यः सोम मत्सरः ॥” इति पाठः। २. विधर्मन् विधर्मणि विविधकर्मधारणे—इति वि०। विधारके यज्ञे—इति भ०। ‘विधर्मन् विशेषेण पोषक’—इति सायणीये व्याख्याने तु स्वरो न सङ्गच्छते।