Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 520

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
इ꣡न्द्रा꣢य पवते꣣ म꣢दः꣣ सो꣡मो꣢ म꣣रु꣡त्व꣢ते सु꣣तः꣢ । स꣣ह꣡स्र꣢धारो꣣ अ꣡त्यव्य꣢꣯मर्षति꣣ त꣡मी꣢ मृजन्त्या꣣य꣡वः꣢ ॥५२०॥

इ꣡न्द्रा꣢꣯य । प꣣वते । म꣡दः꣢꣯ । सो꣡मः꣢꣯ । म꣣रु꣡त्व꣢ते । सु꣣तः꣢ । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । अ꣡ति꣢꣯ । अ꣡व्य꣢꣯म् । अ꣣र्षति । त꣢म् । ई꣣ । मृजन्ति । आय꣡वः꣢ ॥५२०॥

Mantra without Swara
इन्द्राय पवते मदः सोमो मरुत्वते सुतः । सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥

इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः । सहस्रधारः । सहस्र । धारः । अति । अव्यम् । अर्षति । तम् । ई । मृजन्ति । आयवः ॥५२०॥

Samveda - Mantra Number : 520
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मदः) तृप्तिकरः, (सुतः) ध्यानरूपैः ग्रावभिः अभिषुतः (सोमः) रसनिधिः परमात्मा (मरुत्वते) प्राणवते (इन्द्राय) आत्मने (पवते) प्रस्रवति। (सहस्रधारः) सहस्रं बह्व्यः धारा आनन्दधारा यस्य सः (अव्यम् अति) अविः पृथिवी तस्यायम् अव्यः पार्थिवः अन्नमयकोशः तम् अतिक्रम्य, प्राणमयमनोमयादिकोशान् (अर्षति) गच्छति। (तम् ई२) तं किल। ई इति वाक्यालङ्कारे, यद्वा ई ईम् एनम्। (आयवः) मनुष्याः (मृजन्ति) भक्तिप्रसूनैः अलङ्कुर्वन्ति ॥१०॥
Essence
रसागारः परमेश्वरो ध्यानानुष्ठातारं भक्तिप्रवणं जीवात्मानमानन्दनिर्झरेण स्नपयति ॥१०॥
Subject
अथ सोमः परमात्मा कस्मै पवत इत्याह।
Footnote
१. ऋ० ९।१०७।१७। २. ऋग्वेदे यत्र मूलमन्त्रे ‘ई’ इति पठ्यते तत्र पदकारः ‘ईम्’ इति पठति। परं सामवेदीयपदपाठे ‘ई’ इत्येव प्राप्यते।