Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 519

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥

पु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥

Mantra without Swara
पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥

पुनानः । सोम । जागृविः । अव्याः । वारैः । परि । प्रियः । त्वम् । विप्रः । वि । प्रः । अभवः । अङ्गिरस्तम । मध्वा । यज्ञम् । मिमिक्ष । नः ॥५१९॥

Samveda - Mantra Number : 519
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अङ्गिरस्तम) अतिशयेन तेजस्विन् ! अङ्गारेष्वङ्गिराः इति हि निरुक्तम् ३।१७। (सोम) मदीय अन्तरात्मन् ! (जागृविः) जागरूकः, (अव्याः वारैः) अविबालनिर्मितदशापवित्रैरिव बुद्धेस्तर्कैः (परि पुनानः) असत्यं परित्यज्य सत्यं स्वीकृत्य स्वात्मानं पवित्रं कुर्वन् (प्रियः) सर्वेषां स्नेहभाजनभूतः (त्वम् विप्रः) प्रशस्तज्ञानवान् (अभवः) अजायथाः। स त्वम् (नः) अस्माकम् (यज्ञम्) जीवनयज्ञम् (मध्वा) मधुना, माधुर्येण (मिमिक्ष) सेक्तुं प्रयतस्व। मिह सेचने धातोः सनि लोण्मध्यमैकवचने रूपम् ॥९॥
Essence
मनुष्यैर्जागरूकैः सर्वेषां प्रियैर्ज्ञानवद्भिस्तेजस्विभिर्मधुरव्यवहारैश्च भवितव्यम् ॥९॥
Subject
अथ सोमं जीवात्मानमुद्बोधयति।
Footnote
१. ऋ० ९।१०७।६, ‘जागृविरव्या, अभवोऽङ्गिरस्तम, णः’ इत्यत्र क्रमेण ‘जागृविरव्यो, अभवोऽङ्गिरस्तमः, नः’ इति पाठः।