Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 518

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥५१८॥

अ꣣भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मुद्र꣡स्य꣢ । स꣣म् । उद्र꣡स्य꣢ । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ ॥५१८॥

Mantra without Swara
अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः । मत्सरासः । मदच्युतः । मद । च्युतः ॥५१८॥

Samveda - Mantra Number : 518
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मनीषिणः) मननवन्तः, (मत्सरासः) उल्लासमयाः, (मदच्युतः) आनन्दस्राविणः (सोमासः) पीतब्रह्मानन्दरूपसोमाः। अत्र सोमशब्दस्य सोमवति लक्षणा विज्ञेया, यद्वा सोमासः सोमवन्तः, मतुब्लुक्। (आयवः) मनुष्याः। आयव इति मनुष्यनाम। निघं० २।३। (समुद्रस्य विष्टपे अधि) राष्ट्ररूपस्य अन्तरिक्षस्य लोके, राष्ट्रवासिषु जनेषु इत्यर्थः। (मद्यम्) उल्लासजनकम् (मदम्) ब्रह्मानन्दरसम् (पवन्ते) प्रवाहयन्ति। ‘मत्सरासः’, ‘सोमासः’ इत्युभयत्र ‘आज्जसेरसुक्’ इति जसोऽसुगागमः ॥८॥
Essence
स्वयं ब्रह्मानन्दरसे मग्ना योगिनो जना अन्यानपि ब्रह्मानन्दरसमग्नान् कुतो न कुर्युः ॥८॥
Subject
अथ के कुत्रानन्दरसं प्रवाहयन्तीत्युच्यते।
Footnote
१. ऋ० ९।१०७।१४, ‘विष्टपे’, ‘मदच्युतः’ इत्यत्र क्रमेण ‘विसृपि, स्वर्विदः’ इति पाठः। साम० ८५६।