Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 517

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥५१७॥

मृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्या । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣣र्षसि ॥५१७॥

Mantra without Swara
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥

मृज्यमानः । सुहस्त्या । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥५१७॥

Samveda - Mantra Number : 517
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुहस्त्य) हस्ते भवानि हस्त्यानि ऐश्वर्याणि, शोभनानि हस्त्यानि यस्य तादृश शोभनैश्वर्य सोम रसागार परमात्मन् ! छन्दसि ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। (मृज्यमानः) स्तुतिभिः अलङ्क्रियमाणः त्वम्। मृजू शौचालङ्कारयोः, चुरादिः। (समुद्रे) उपासकस्य हृदयान्तरिक्षे। समुद्र इत्यन्तरिक्षनाम। निघं० १।३ (वाचम्) सत्प्रेरणात्मिकां वाणीम् (इन्वसि) प्रेरयसि। इन्वति गतिकर्मा। निघं० २।१४। हे (पवमान) पवित्रतादायक जगदीश्वर ! त्वम् (बहुलम्) प्रचुरम्, (पुरुस्पृहम्) बहु बहुभिर्वा स्पृहणीयम् (पिशङ्गं रयिम्) पिङ्गलवर्णं धनं हिरण्यम् यद्वा तेजोयुक्तम् आध्यात्मिकं धनं सत्याहिंसादिकम् (अभ्यर्षसि) अभिगमयसि प्रयच्छसीत्यर्थः ॥७॥ अत्र द्वितीयचतुर्थपादयोरन्त्यानुप्रासः, पवर्गपराणामनेकेषामनु- स्वाराणां सह प्रयोगे च वृत्त्यनुप्रासः ॥७॥
Essence
सर्वेषां हृदि स्थितः परमेश्वरो दिव्यसन्देशं निरन्तरं प्रयच्छति, स एव जीवनं पवित्रं कुर्वन् तेजोमयम् आध्यात्मिकं भौतिकं चापि धनं प्रददाति ॥७॥
Subject
अथोपासितः परमेश्वरः किं करोतीत्याह।
Footnote
१. ऋ० ९।१०७।२१ ‘सुहस्त्या’ इत्यत्र ‘सुहस्त्य’ इति पाठः।