Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 516

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रू꣡णि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ परि꣣धी꣢꣫ꣳरति꣣ ता꣡ꣳ इ꣢हि ॥५१६॥

त꣡व꣢꣯ । अ꣣ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पु꣣रू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥५१६॥

Mantra without Swara
तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳ इहि ॥

तव । अहम् । सोम । रारण । सख्ये । स । ख्ये । इन्दो । दिवेदिवे । दिवे । दिवे । पुरूणि । बभ्रो । नि । चरन्ति । माम् । अव । परिधीन् । परि । धीन् । अति । तान् । इहि ॥५१६॥

Samveda - Mantra Number : 516
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) चन्द्रवदाह्लादक सोमौषधिवद् रसागार (इन्दो) रसेन क्लेदयितः परमात्मन् ! (अहम्) उपासकः (तव सख्ये) त्वदीये सखित्वे (दिवे दिवे) दिने दिने (रारण) रमेय। रण शब्दे रमणार्थेऽपि प्रयुज्यते। यथा रणाय रमणीयाय। निरु० ९।२७। लिङर्थे लिट्, अभ्यासस्य छान्दसो दीर्घः। हे (बभ्रो) भरणपोषणकर्तः परमेश ! बिभर्तीति बभ्रुः। ‘कुर्भ्रश्च’ उ० १।२२ इति कु प्रत्ययः धातोर्द्वित्वं च। (पुरूणि) बहूनि कामक्रोधादीनि रक्षांसि (माम्) तवोपासकम् (नि अव चरन्ति) उद्वेजयन्ति, (परिधीन्) परिवारकान् (तान्) राक्षसान् (अति इहि) अतिक्रमस्व पराजयस्व ॥६॥
Essence
परमात्मनः सख्येन मनुष्यः सर्वान् परिवारकान् कामक्रोधलोभमोहहिंसाऽसत्याऽन्यायादीन् शत्रून् जित्वोन्नतिपथे प्रवर्तते ॥६॥
Subject
अथ परमात्मनः सख्यं प्रार्थयते।
Footnote
१. ऋ० ९।१०७।१९, साम० ९२२।